Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 196
________________ ८८५] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [नयचक्रतुम्बे भगवांस्त्वहन् यदेतत् सर्वं नाम तत्र निरावरणज्ञानः, तस्य यथाभूतप्रभेदस्य सभ्यगभिधातृत्वात्, मैत्र इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वस्य । ५७०-२ किसलयता-पत्र-कुसुम-फलादिविचित्रावस्थं स्वतत्त्वते (तो) न वेत्ति द्राधीयःकालविसर्पिविज्ञानहीनत्वात् तदन्यतमावस्थामात्रावलेहिहसिष्ठज्ञत्वात्, एवमेकान्तवादिनो वस्तुतत्त्वानभिज्ञत्वमिति ।। । युगपदनन्तद्रव्यपर्यायपरिणतिविषयाव्याहतनिरावरणनिनिमित्ताविर्भावाक्ष-लिङ्ग-शब्दादिनिमित्तान्तरा[न]पेक्षकेवलज्ञानोऽर्हन् भगवान् । यद् यद् यान् यान् भावान् परिणमति हि विस्रसा-प्रयोगाभ्याम् । तत् तेदवैति तथार्हन् ज्ञानं नापर्ययेऽस्तीति ॥ [ ] ज्ञानस्य सर्वार्थेष्वव्याहतवृत्तित्वादनवधृविषयत्वात् तस्य च वस्तुनोऽनन्तत्वाद् युगपदनन्तार्थवृत्तिज्ञान 10 एव तद्वस्तुस्वतत्त्वं वेत्ति, नान्यः, स चाहन्नेवेत्यत आह-भगवांस्त्वहन यदेतत् सर्व नाम तत्र निरावरणज्ञानः, सर्वाख्ये वस्तुनि निरावरणमव्याहतमस्य ज्ञानमित्यर्थः । तस्य यथाभूतप्रभेदस्य सम्यगभिधातृत्वात, तस्य सर्वाख्यस्य वस्तुनो यथाभूतं यद् यद् भूतं यथाभूतम् वीप्सार्थत्वाद् यथाशब्दस्य येन प्रकारेण भूतं वा वस्तु सप्रभेदं सप्रतिपक्ष नित्यकारणैकसर्वगतादिसंग्रह-विशेषप्रस्तारात्मकानन्तभेदप्रभेदम्, तच्च वस्तु तैरनन्तै दैरवयवरशेषः सह स्याद्वादेऽनेकनयविकल्पमुक्तम्, अतः 15 सर्वाख्यवस्तुनिरवशेषावयवप्रभेदकविषयसम्यगभिधायित्वमस्य सिद्धम्, समस्तनयात्मकत्वात् स्याद्वा दस्य, यस्य यथाभूतनिरवयवप्रभेदवस्तुविषयं सम्यगभिधातृत्वं स तत्र निरावरणज्ञानो दृष्टः, १७१-१ तद्यथा-मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वस्य देश-काला[-ऽऽकार-प्रमाणादिविशिष्टस्य शिशिर-वसन्त-निदाघ-वर्षा-शरद्धेमन्तेषु तां तामवस्थां 'बिभ्रतं तथा विशेष्य त्वन्मानोऽङ्गारकितः किशलयितः पत्रित इत्यादि ब्रुवन् मैत्रक: पलाशं निरवयवप्रभेदं तत्र निरावरणज्ञान इति प्रसिद्धः, न 20 रेवतीद्वीपमध्यजातसंवृद्धोऽदृष्टदेशान्तरो मौर्यकुमारोऽन्यथा ब्रुवन् एकावस्थामात्राभिधायी वा मैत्रक मुग्धकुमारोऽन्यः तथा अर्हन् यथाभूतमित्यादि सर्वावयवप्रभेदं वस्तु निरवशेषं ब्रुवन्ननुमीयतां तत्र निरावरणज्ञान इति । तत्र निरावरणज्ञानत्वेन व्याप्तत्वाद्धेतोविवक्षितधर्मसाध्यत्वाद् न विरुद्धादिदोषाः साधनस्य अस्य, प्रसाधितत्वाच्च सर्वस्य सर्वत्र हेतुत्वप्रज्ञ (क्ल? )प्तेरर्हत्संदेशकथनव्याप्तस्याद्वादिसर्वज्ञत्व प्रसङ्गोऽप्यनिष्टो न भवति, अनुमातुरपि सर्वभावस्वभावज्ञत्वात्। स्याद्वादिनः न्यायव्यवहारलोपप्रसङ्गः 25 सपक्ष-विपक्षादिव्यवस्थालोपप्रसङ्गादिति चेत्, न, प्रत्येकनयविवक्षाविषयायाः परमतापेक्षविपक्षादिव्यवस्थायाः प्रक्लृप्तेः परिहृताशेषदोषाशङ्कमेवैतत् साधनमिति । १ दृश्यतां पृ० १८२ पं० १३, पृ० २१२ पं० १९, पृ० ४७८ पं० ४ टि० १॥ २ तदवेति प्र०॥ ३ नियत्य" य०॥ ४ निचशेषावयव प्र०॥ ५ बिभ्रतां प्र०॥ ६ व्यावत्त य०॥ ७ मानरपि य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252