________________
शास्त्ररचनाप्रयोजनम् ]
द्वादशारं नयचक्रम्
[ ८८६
सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति - नयावतारादिषु नयशास्त्रेषु तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने सत्यपि दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहसंवेगश्रवणधारणादिशक्तीन् भव्यजनाननुग्रहीतुं संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्र श्रीमच्छ्वेतपटमल्लवादिक्षमाश्रमणेन विहितं भरतचक्रवर्तिना चक्ररत्नमिव जैनानां वादिचक्रवतित्वविधये । तदेतदेवं द्वादशारनयचक्रं सिद्धम् ।
इति नयचक्रतुम्बम्
Jain Education International
अधुना तु शास्त्रप्रयोजनमुच्यते - सत्स्वपि पूर्वाचार्यविरचितेषु सम्मति - नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीतनैगमादिप्रत्येकशतसंख्यप्रभेदात्मक सप्तनयशतारनयचक्राध्ययनानुसारिषु ५७१-२ तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धे रणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्ब्रलोत्साह-श्रद्धा-संवेग श्रवर्णं धारणादिशक्तीनां भव्यसत्त्वानां श्रवणमेव तावद् दुर्लभम् श्रुत्वापि तत्त्वावबोधः, बुद्ध्वा तत्त्वमन्य (प्य ? ) स्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो 10 दुर्लभः, सत्यपि आदरे ग्रन्थार्थसंस्मरणं तदुद्ग्राहणम् उग्राहितार्थप्रतिपादनं चात्यन्तखेदायेति मत्वा तत्खेदखिन्नान् विस्तरग्रन्थभीरून् संक्षेपाभिवाञ्छिनः शिक्षकजना [न] नुग्रहीतुं कथं नाम अल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छ्वेतपट मल्लवादिक्षमाश्रमणेन विहितं स्वनीति-स्वपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सकलभरतविजयवासिनृपतिविजिगीषुचक्रविजयिना भरतचक्रवर्तिना देवतापरिगृहीता - 15 प्रतिहतचक्ररत्नेन स्वपुत्त्रपरम्परानुयायिजगद्वयापिविपुलविपुलविमलयशसा चक्ररत्नमिव तदिदं नयचत्ररत्नं चक्रवर्तिनामिव चक्ररत्नं पुत्र-पौत्रादिनृपतीनां विहितं कृतम् । किमर्थमिति चेत्, चक्रवर्तिनामिव चक्रवतत्वविधये वादिनां जनानां जिनशासनप्रभावनाभ्युद्यतानां वादिचक्रaftaar 'वादिचक्रवर्तित्वं विधेयात्' इत्येवमर्थम् इत्येतस्य नयचत्रशास्त्रस्य विधाने प्रयोजनमभिहितम् । तदेतदेवं द्वादशारनयचक्रं सिद्धं प्रतिष्ठितमव्याहतं चक्रवर्तिचक्ररत्नवदेव अन्या - 20 विप्रधृष्याचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तं च सिद्धम् । सिद्धनामग्रहणं च मङ्गलं कल्याणं शिष्य
१ द्वारणं प्र० ॥ २णसाधा य० ॥ ३ श्रवणेन भा० ॥ ४ इत्येतमर्थं प्र० ॥ ५ हितं प्र० ॥
5
For Private & Personal Use Only
www.jainelibrary.org