SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतं द्वादशारं नयचक्रम् । प्रशिष्यपरम्परया प्रतिष्ठातुमर्हति प्रतिष्ठितसिद्धविजयावहजगन्मूर्धस्थसिद्धवत् प्रतिष्ठितं यशस्कर मिति । ८८७] इति श्रीमन्मल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् । ग्रन्थाग्रम् १८००० । शुभं भवतु ॥ १ प्रतिष्ठितयश' भा० ॥ २ श्रीमल्ल य० ॥ ३ श्रवण भा० यमू० ॥ ४ ' भवतु ॥' इत्यतः परं ५७२ तमे पत्रे भा० प्रतावीदृशी प्रशस्तिर्दृश्यते "श्री आर्यरक्षितगुरोः प्रसृते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि । सूरीश्वरा गुणनिधानसुनामधेया आसन् विशुद्धयशसो जगति प्रसिद्धाः ॥ १ ॥ तत्पट्टपद्मतरणिस्तरणिर्भवाब्धौ श्रीधर्ममूतिरिति सूरिवरो विभाति । भाग्यमुख सद्गुणरत्नरत्नगोत्तः पवित्रचरितो महितो विनेयैः ॥ २ ॥ तेन स्वश्रेयसे ज्ञानभाण्डागारे हि लेखिते । नन्दतान्नयचो तुम्बपुस्तकमुत्त [म]म् ॥ ३ ॥ पुंजो मुंजोपमो लक्ष्म्या मन्त्रिगोविन्दनन्दनः । श्रीगुरोराज्ञया सुज्ञः शास्त्रमे [व] मलीलिखत् ॥ ४ ॥” ‘ग्रन्थाग्रम् १८०००' इत्यनन्तरं ३०९ तमे पत्ते य० प्रतावीदृशी प्रशस्तिः--- "यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ संवत् १७१० वर्षे पोसवदि १३ दिने श्रीपत्तननगरे पं. श्री यशविजयेन पुस्तकं लिखितं । शुभं भवतु । 'उदकानलचौरेभ्यो मूख (ष) केभ्यो विशेषतः । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ १ ॥ 'भग्नपृष्ठिकटिग्रीवा दृष्टिस्तत्र अधोमुखी । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ २ ॥ पूर्व पं. यशविजयगणिना श्रीपत्तने वाचितम् ॥ छ ॥ आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ १ ॥ विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ॥ २ ॥ तत्त्वविजयमुनयोऽपि प्रयासमत स्म कुर्वते लिखने । सह रविविजयैविबुधैरलिखच्च यशोविजयविबुधः ॥ ३ ॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् । गुणमत्सव्यवहिता दुर्जनदृग् वीक्षते नैनम् ॥ ४ ॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः । अनवरतं चेष्टन्ते जिनवचनोद्भासनार्थं ये ।। ५॥ श्रेयोऽस्तु ॥ सुमहानप्ययमुच्चैः पक्षेणैकेन पूरितो ग्रन्थः । कर्णामृतं पटुधियां जयति चरित्रं पवित्रमिदम् ।। ६ ।। " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy