Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 167
________________ सर्वनैः स्वाभाव्य निरसनम् ] द्वादशारं नयचक्रम् ८५६ एवं च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत् । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः । सर्वनैः स्वाभाव्ये तु प्रत्यक्षादिविरोधाः स्फुटा एव । सर्वशून्यवादगतपक्षधर्मा द्यभावश्च न साध्यः । अपि च विज्ञानाभ्युपगमाद् विज्ञानमात्रमेवेदं सर्वम्, सर्वस्य सतो विज्ञानलक्षणत्वात् । स च पुरुष एव ज्ञः । तन्मयं चेदम् । यथोक्तं प्राक् प्रतिज्ञादोषः । न केवलमभ्युपगमविरोध एव ज्ञानविषयः, वचसोऽपि पक्षादिलक्षणस्यान्ते सस्वभावत्वे यत् प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम्, इदानीं सस्वभावत्वाभ्युपगमात् इति स्ववचनविरोधश्च दोषः, इतिशब्दस्य हेत्वर्थत्वात् । इत्थं साधन -दूषण - प्रतिपाद्यप्रतिपादनव्यवहारमार्गानुपातिनः सतस्तेऽनुमान -[[गम-]लोकँविरोधा अपीत्यत आह एवं च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि । 'अनन्तरोक्त - 10 सस्वभावत्वे विज्ञान-वचसो:' इति स्मारयति एवंशब्दः । कस्मात् सद् घटादि ? इति चेत्, उच्यतेव्यवहारवृत्तत्वात्, तद्वाक्यवत्, अंसिद्धययुक्त्यनुत्पाद-सामग्रीदर्शना-ऽदर्शनपक्ष-परायत्तोभयविरो-५४९-२ धादिविकल्पहेतुखपुष्पादिदृष्टान्तबुद्धि-वचसां सस्वभावत्ववद् घटादीनां व्यवहारवृत्तानां सस्वभावत्वं स्यादिति । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः, तस्य तस्य वचनस्य श्रोतेन्द्रियप्रत्यक्षस्य पक्षाद्यवयवविभागस्य घटादिप्रतिपाद्यार्थ सहितस्य तद्विज्ञानस्य च तव मम च स्वसंवेद्यस्य शून्यत्वे प्रत्यक्षादि - 15 विरोधाः सस्वभार्वत्वमनिच्छतः । इच्छत अभ्युपगम - स्ववचनविरोधीवृक्तावेव । आदिग्रहणादनुमानाऽऽगमविरोधौ, अर्हद्-बुद्ध-कपिल- कणाद ब्रह्मादिप्रोक्तेरागमैः सह विरोधित्वात् । लोकविरोधस्तु प्रसह्यैवोपात्तस्त्वया ‘घटादयो बाह्यार्थाः ज्ञान-वचने च सन्ति' इति प्रपन्नं सर्वलोकमवमत्य 'शून्या: सर्वभावाः' इति प्रवृत्तत्वात् । एवं ज्ञान-वचनशून्याशून्यत्वयोरभ्युपगमविरोधादिसर्वदोषाः । * सैर्वनैःस्वाभाव्ये तु सर्वेऽपि प्रत्यक्षादिविरोधाः स्फुटा एव ज्ञान-वचनयोः सर्वान्तःपातित्वाद् यथा योजितं तया 20 दिशेत्येवं तावत् पक्षदोषाः सामान्यत उक्ताः । दोषदिक्प्रदर्शनार्थं तयैव दिशाह - सर्वशून्यवादगतपक्षधर्माद्यभावश्च न साध्यः, असिद्धयादिपक्षासिद्धौ परायत्तादिहेतवो न सिध्यन्त्येवानयोक्तदिशेति स्फुटत्वान्नात्वाभिनिविशामहे । अपि च विज्ञानाभ्युपगमादित्यादि यावत् सतो विज्ञानलक्षणत्वादिति । त्वयैवाभ्युपग- ५५०-१ [त]मसिद्ध्यादिहेतुभिर्बाह्यार्थनैः स्वाभाव्यमापाद्य 'विज्ञानमात्रमेवेदं सर्वं स्वप्नसिंहादिवज्जाग्रत्सिंहदर्शन - 25 5 १ लक्षणंस्याते भा० । 'लक्षणस्याते य० । (लक्षणस्य ते ? ) ।। २ हेतत्वात् य० ।। ३ केविरोधा आपीत्यत आह भा० । “कविरोधापीत्यताह य० । ( Sनुमान -लोकविरोधावपीत्यत आह ? ) । ४ ( त्वद्वाक्यवत् ? ) ।। ५ पृ. ८२८ पं १ पृ. ८३० पं १ ।। ६ भयविरोधादिविकल्प इति अधिक: पाठोऽत्र य० प्रतौ स तूपरितनपंक्तितो लेखकानवधानादिहायातः ।। ७ तच्छून्यहेतु भा० ॥। ८ वर्मानि य० ।। ९ पृ० ८५५ पं० ५ । १० प्रयत्नं प्र० ।। ११*** एतदन्तर्गतः पाठो य० प्रतौ नास्ति । १२ यार्वे सतो य०।- र्व सतो भा० ॥ ( यावत् सर्वसतो ? ) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252