________________
सर्वनैः स्वाभाव्य निरसनम् ]
द्वादशारं नयचक्रम्
८५६
एवं च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत् । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः । सर्वनैः स्वाभाव्ये तु प्रत्यक्षादिविरोधाः स्फुटा एव । सर्वशून्यवादगतपक्षधर्मा
द्यभावश्च न साध्यः ।
अपि च विज्ञानाभ्युपगमाद् विज्ञानमात्रमेवेदं सर्वम्, सर्वस्य सतो विज्ञानलक्षणत्वात् । स च पुरुष एव ज्ञः । तन्मयं चेदम् । यथोक्तं प्राक्
प्रतिज्ञादोषः । न केवलमभ्युपगमविरोध एव ज्ञानविषयः, वचसोऽपि पक्षादिलक्षणस्यान्ते सस्वभावत्वे यत् प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम्, इदानीं सस्वभावत्वाभ्युपगमात् इति स्ववचनविरोधश्च दोषः, इतिशब्दस्य हेत्वर्थत्वात् । इत्थं साधन -दूषण - प्रतिपाद्यप्रतिपादनव्यवहारमार्गानुपातिनः सतस्तेऽनुमान -[[गम-]लोकँविरोधा अपीत्यत आह
एवं च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि । 'अनन्तरोक्त - 10 सस्वभावत्वे विज्ञान-वचसो:' इति स्मारयति एवंशब्दः । कस्मात् सद् घटादि ? इति चेत्, उच्यतेव्यवहारवृत्तत्वात्, तद्वाक्यवत्, अंसिद्धययुक्त्यनुत्पाद-सामग्रीदर्शना-ऽदर्शनपक्ष-परायत्तोभयविरो-५४९-२ धादिविकल्पहेतुखपुष्पादिदृष्टान्तबुद्धि-वचसां सस्वभावत्ववद् घटादीनां व्यवहारवृत्तानां सस्वभावत्वं स्यादिति । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः, तस्य तस्य वचनस्य श्रोतेन्द्रियप्रत्यक्षस्य पक्षाद्यवयवविभागस्य घटादिप्रतिपाद्यार्थ सहितस्य तद्विज्ञानस्य च तव मम च स्वसंवेद्यस्य शून्यत्वे प्रत्यक्षादि - 15 विरोधाः सस्वभार्वत्वमनिच्छतः । इच्छत अभ्युपगम - स्ववचनविरोधीवृक्तावेव । आदिग्रहणादनुमानाऽऽगमविरोधौ, अर्हद्-बुद्ध-कपिल- कणाद ब्रह्मादिप्रोक्तेरागमैः सह विरोधित्वात् । लोकविरोधस्तु प्रसह्यैवोपात्तस्त्वया ‘घटादयो बाह्यार्थाः ज्ञान-वचने च सन्ति' इति प्रपन्नं सर्वलोकमवमत्य 'शून्या: सर्वभावाः' इति प्रवृत्तत्वात् । एवं ज्ञान-वचनशून्याशून्यत्वयोरभ्युपगमविरोधादिसर्वदोषाः । * सैर्वनैःस्वाभाव्ये तु सर्वेऽपि प्रत्यक्षादिविरोधाः स्फुटा एव ज्ञान-वचनयोः सर्वान्तःपातित्वाद् यथा योजितं तया 20 दिशेत्येवं तावत् पक्षदोषाः सामान्यत उक्ताः ।
दोषदिक्प्रदर्शनार्थं तयैव दिशाह - सर्वशून्यवादगतपक्षधर्माद्यभावश्च न साध्यः, असिद्धयादिपक्षासिद्धौ परायत्तादिहेतवो न सिध्यन्त्येवानयोक्तदिशेति स्फुटत्वान्नात्वाभिनिविशामहे ।
अपि च विज्ञानाभ्युपगमादित्यादि यावत् सतो विज्ञानलक्षणत्वादिति । त्वयैवाभ्युपग- ५५०-१ [त]मसिद्ध्यादिहेतुभिर्बाह्यार्थनैः स्वाभाव्यमापाद्य 'विज्ञानमात्रमेवेदं सर्वं स्वप्नसिंहादिवज्जाग्रत्सिंहदर्शन - 25
5
१ लक्षणंस्याते भा० । 'लक्षणस्याते य० । (लक्षणस्य ते ? ) ।। २ हेतत्वात् य० ।। ३ केविरोधा आपीत्यत आह भा० । “कविरोधापीत्यताह य० । ( Sनुमान -लोकविरोधावपीत्यत आह ? ) । ४ ( त्वद्वाक्यवत् ? ) ।। ५ पृ. ८२८ पं १ पृ. ८३० पं १ ।। ६ भयविरोधादिविकल्प इति अधिक: पाठोऽत्र य० प्रतौ स तूपरितनपंक्तितो लेखकानवधानादिहायातः ।। ७ तच्छून्यहेतु भा० ॥। ८ वर्मानि य० ।। ९ पृ० ८५५ पं० ५ । १० प्रयत्नं प्र० ।। ११*** एतदन्तर्गतः पाठो य० प्रतौ नास्ति । १२ यार्वे सतो य०।- र्व सतो भा० ॥ ( यावत् सर्वसतो ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org