________________
उप्रह । सद्गुरुभ्यो नमः
अथ दादशारान्तरम् । एतदपि पूर्ववदेवकान्तत्वादयुक्तम्, सम्भविविकल्पानुपपत्तेः। एवं ब्रुवत एवं विज्ञानवचसी निःस्वभावे।
अथा मा भूदयं दोष इति सस्वभावे विज्ञान-वचसी अभ्युपगच्छसि, सर्व निःस्वभाव5 मित्यभ्युपगमविरोधः। बचसोऽपि सस्वभावत्वे न तर्हि सर्वं निःस्वभावमिति स्ववचनविरोधश्च दोषः।
विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रत्येकवृत्तिमिथ्यादर्शनत्वापादनार्थं प्रवृत्तत्वादाह--एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, यथा क्षणिकमेव रूपादिसमुदायमेव [अ]वक्तव्यमेव सामान्य-विशेषका-ऽन्यत्वादीनी (ती? ) त्येकान्तवादानामयुक्तत्वमेकान्तत्वात्, युक्तत्वे वा जैनेन्द्रत्व10 मनेकान्तप्रतिष्ठगतित्वाद्वेत्युक्तं तथैतदपि 'सर्वं निःस्वभावम्' इति मतम् । कस्मात् ? सम्भविविकल्पानपपत्तेः, अस्मिन्नपि मते ये विकल्पाः सम्भवन्ति सङ्ग्रहेण 'विज्ञान-वचसो::स्वाभाव्यं स्वाभाव्यं वा' इत्यनयोरेव भेदा वक्ष्यमाणास्ते सर्वथा नोपपद्यन्ते, तदनुपपत्तेरस्यापि मतस्यायुक्तिः । अतो जैनकल्पितानेकान्तरूपत्वं वस्तुनः श्रेय इत्युपसंहारो भविष्यति।
तद्यथा-एवं सर्वं निःस्वभावमिति ब्रुवतोऽतीतासिद्धयादियुक्तिप्रकारेण तव इति प्रत्युच्चारणं 15 प्रथमैवंशब्दात् । द्वितीयवंशब्दाद् विज्ञान-वचसोरपि त्वयोक्तयोः सर्वान्तःपातित्वादविशेष्य 'सर्व ५४९-१ निःस्वभावम्' इत्युक्तत्वाद् विज्ञानतत्त्वाच्चातिप्रसक्तं विज्ञान-वचसी निःस्वभावें' इत्येतद् वैच:,
अनिष्टं च तद् विज्ञान-वचसोरप्रत्यायनप्रसङ्गात्। यदा हि विज्ञानमसत् तदा 'निःस्वभावमिदं सर्वम्' इत्यनिश्चितम् स्वयमनिश्चित्यास्मान् प्रतिपिपादयिषतस्ते पक्षादिसाधनवचनासत्त्वं च। तस्मात् परप्रत्यायनमयुक्तम् विज्ञानवचसोनिश्चितपक्षादित्वेनाभूतत्वात् उन्मत्तविज्ञान-प्रलापवदिति निः20 स्वभावविकल्पो ज्ञान-वचसोः सर्ववस्तुनःस्वाभाव्यं व्यावर्त यतीति दोषः ।
अथ मा भदित्यादि। एतद्दोषभयात् सस्वभावे विज्ञानवचसी त्वदीये चेदभ्युपगच्छसि 'सर्व निःस्वभावम्' इत्यस्याभ्युपगमस्य विरोधः, केन ? ज्ञान-वचन[स]स्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः
१ दायमेव वक्तव्यमेव सामान्यविशेषकान्यत्वा भा० । दायमेव सामान्यविशेषैन्यत्वा य० । 'दाय एव वक्तव्यमेवावक्तव्यमेव' इत्यपि पाठोऽत्र सम्भाव्यते॥ २ विशेषन्यत्वा य० ॥ ३ वरोनिष्टं प्र० ।। ४ चेवभ्युप प्र० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org