________________
८५७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशारान्तरे
पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ऋग्वेदः १०।८।९० ]
ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते नार्थवत्त्वं विज्ञानस्य । यथोक्तं तदभावे तदप्यसत् ...... स्वप्नमुदाहरद्भिः । 5 एतदप्ययुक्तम्, जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्तनात् । यदि तन्मात्रं किं स्वप्नोऽस्वप्नः ? स्वप्नस्य जागरणाद् विशेषणं न घटते, उभयोरप्यभावतुल्यत्वात्।
पुत्रजन्मादि-भय-हर्ष-सुख-दुःखादिविज्ञानमपि' इत्यतः सर्वस्य विज्ञानलक्षणस्यैव सत्त्वात् तस्य च
सर्वत्वात् सर्वमेतद्विज्ञानमात्रम्, स च पुरुष एव ज्ञः, तन्मयं चेदमतीतानागताभिमतमपि वर्तमानमेव 10 स्तिमितसरःसलिलतरङ्गबुबुदाद्यवस्थावत् सुषुप्त-सुप्त-जागरित-तुरीयाख्यचतुरवस्थामात्रभेदमभिन्न
मस्त्येवास्तीत्यभ्युपगतं भवति । यथोक्तं विधिविधिनयारभङ्गे प्राक-पुरुष एवेदं सर्वमित्यादि । एतत् पुरुषसूक्तं व्याख्यातं तत्रैवेति न पुनर्विवियते ।
अत्राह-ननु विज्ञानशब्देन उत्प्रेक्षामात्रमुच्यते नार्थवत्त्वं विज्ञानस्य। 'स्वप्नसिंहदर्शनभयादिवत्' इत्युदाहृत्य कल्पनामात्रत्वस्य प्रतिपादितत्वाद् ग्राह्याभावः, ग्राह्याभावे ग्राहकत्वस्याभावः । 15 यथोक्तं तदभावे तदप्यसदिति प्रत्युच्चारणमेव तदर्थं यावत् स्वप्नमुदाहरद्भिरिति ।
अत्रोच्यते-एतदप्ययुक्तम्, जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्तनात् । सप्रतिपक्षत्वाच्च भावानां प्रमाण-प्रमाणाभासत्व[व]त् साध्य-दृष्टान्तभेदाभ्युपगमोऽवश्यंभावी । यदि २ तन्मात्रं किमित्यादि, यदि विज्ञानमेव स्वप्नो[5]स्वप्नो न भवति, तस्मिन् स्वप्ने सिंहदर्शनमसदेव
भयनिमित्तम्, "विबुद्धस्य भयापगमोऽसत्त्वे स्वप्नसिंहस्य, जाग्रसिहदर्शनं च साक्षान्मृत्युनिमित्तं 20 सत्यमेव, प्रीतिहेतुश्च जाग्रत्पुत्रदर्शनम्, स्वप्ने[5]तदपेक्षं विबुद्धे प्रीत्यपगमात् । 'भिन्नौ तौ' इत्यवगम्य
जाग्रद्विज्ञानव्यतिरिक्तस्वप्नोदाहरणं युज्यते। तत्तु त्वत्पक्षे स्वप्नस्य जागरणाद् विशेषणं न घटते, कस्मात् ? उभयोरप्यभावतुल्यत्वात् खपुष्पस्य वन्ध्यासुतादिवेति ।
१ सर्व एवद्विज्ञान प्र० ॥ (सर्वं चेद्विज्ञान ?) ॥ २ सुषुप्त य० प्रतौ नास्ति ॥ ३ मस्तेवा प्र०॥ ४ पृ० १३६ पं०८, पृ० १४४ पं०११, पृ० १८९५०५, टिपृ० ५९ पं० २ ॥ ५ जागरज्ञानं प्रमाणरूपं स्वप्नज्ञानं प्रमाणाभासरूपमिति विवक्षायां सत्वात् इति साधु ॥ ६ “सर्वशून्यतायां चेष्यमाणायां स्वप्नास्वप्नादिव्यवहाराभावप्रसङ्ग एवेति दर्शयन्नाह- सव्वाभावे च कओ सुमिणो सुमिणोत्ति सच्चमलियं ति [विशेषावश्यकभा० १७०५] सर्वाभावे च सर्वशून्यतायां चाभ्युपगम्यमानायां 'स्वप्नोऽयम्, अस्वप्नोऽयम् ' इति कुतः ? किंकृतोऽयं विशेष इत्यर्थः।" इति मलधारिहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यटीकायाम् ॥ ७विशुद्धस्य भा० । विशुस्य य० । पृ० ८५८ पं. ५ ।। ८ विशुद्ध प्र० ॥ ९ मानौतावित्यवगम्य य० ॥
५५०-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org