________________
विज्ञानमात्रतानिरासः
द्वादशारं नयचक्रम्
८५८
प्रतिपाद्यमत्यपेक्षयेति चेत्, न, उभयोरप्यभावतुल्यत्वात् । खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते । ननु विज्ञानविषया चास्तिता स्थितैव। निर्भेदं च नास्तित्वं नास्त्येव । सत्त्वमेव तत् तथा।
अथोच्येत--विज्ञानास्तित्वमपि कः प्रतिपद्यते कल्पनामात्रत्वात् ? विज्ञानाद्धि विज्ञानं तद्विज्ञेयाभावे कुतस्तत् ? स्वप्ने तत्कारणस्य विज्ञेयस्याभावात् । विबुद्धेऽप्येवमेव ।।
एवमपि विज्ञान-विज्ञेया- विज्ञाना-विज्ञेयतदतद्भेदाभ्युपगमात् सद्वाद एवाभ्युपगतोत्र त्वया।
10
प्रतिपाद्यमत्यपेक्षयेति चेत् । स्यान्मतम्-भाव्यदृष्टान्तयोर्जागर-स्वप्नविज्ञानयोरर्थाभावतुल्यत्वं तथापि त्वत्प्रसिद्धाभावार्थेन स्वप्नेनैव जागराभावार्थत्वप्रतिपादनं सुकरं त्वन्मत्यनुवृत्त्या "क्रियते । अयं हि प्रतिपाद्यस्य मतेरनुरोध उपायः प्रतिपादयितुमभावतुल्यत्वेऽपीति।
एतच्च न, उभयोरप्यभावतुल्यत्वात, 'मतेरप्यमतेर्भेदेन विशेषणं प्रतिपाद्यस्य प्रतिपादकादेरप्रतिपाद्याद् विशेषणम्' इत्याद्यप्यभावतुल्यत्वान्न घटत एव। किञ्चान्यत्, स्वप्नदृष्टान्तोऽपि खपुष्पव्युदसनेन च 'स्वप्नसिंहदर्शनवत्' इति वचनं घटते खपुष्पं न भवति सिंह इति । स्वप्नदृष्टान्तव्याख्याने च वृथाभय-हर्षादि विशेषणमवृथाभय-हर्षादिना "विना न भवितुमर्हति ।
नन्वित्यनुज्ञापयति । किञ्चान्यत्, विज्ञानविषया चास्तिता ननु स्थितैव, विज्ञानमात्रम्' 15 इति ब्रुवता विज्ञानास्तित्वमभ्युपगतमेव त्वया, तंतश्च 'सर्वं निःस्वभावम्' इत्येतद् मिथ्या। ५५१-१
किञ्च, निर्भेदं च नास्तित्वं नास्त्येव, कुतश्चित् सतो वस्तुनो "विशेष्य सदेव शक्यं वक्तुं नास्तीति 'खपुष्पस्य पुष्पं नास्ति नाशोकस्य' इति, नाविशेष्य । तस्मान्न शून्यत्वं सर्वस्य, सर्वमिति सत्त्वमेव तत् तथा तेन प्रकारेण स्वप्नविज्ञानसिंहादेरपि नास्तित्वमन्यास्तित्वं साधयतीति ।
अथोच्यतेत्यादि । "विज्ञानास्तित्वमपि कः प्रतिपद्यते, कल्पनामात्रत्वात्? असिद्धयादि- 20 हेतुभ्य एव स्वप्नवन्नास्ति विज्ञानमपि, 'विजानाति' इति हि विज्ञानं स्यात्, सा च विज्ञानक्रिया कर्तृत्वं वा विज्ञानस्य नास्ति विज्ञेयकर्माभावात् स्वप्ने । तत् प्रदर्शयन्नाह-विज्ञानाद्धि विज्ञानं तद्विज्ञेयाभावे कुतस्तत ? 'विजानाति' इति विज्ञानस्य विज्ञानत्वं स्यात्, तद्विज्ञेये कर्मण्यसति कुतः ? नास्ति कुतश्चित् कारणात्, स्वप्ने तत्कारणस्य विज्ञेयस्याभावात् । विबुद्धेऽप्येवमेवेति जाग्रद्विज्ञानस्यापि स्वप्नविज्ञानवद् विज्ञेयाभावे विज्ञानत्वाभावात् का विज्ञानास्तित्वाशा? इति ।
25 ___अत्रोच्यते-एवमपीत्यादि । 'विजानाति विज्ञानम्' इत्यविज्ञानात् स्वप्नाज्जाग्रद्विज्ञानं विशेष्यते त्वयैव, 'अविज्ञानम्' इति च स्वप्नो जाग्रद्विज्ञानात्, तथा 'विज्ञेयम्' इत्यविज्ञेयात् स्वप्नविषयादर्था
१ तुलना पृ. ८५७ पं० १७॥ २ गरणस्वय०॥ ३ जागरणोभाय०।। ४ क्रियाव प्र० ॥ ५ घट एव भा० । घ एव य० ॥ ६ (दृष्टान्ते?) ।। ७ विना भवितु य० ॥ ८ वास्तिता भा० ॥ ९ तश्च भा० ।। १० विशेषस्य य० ॥ ११ विज्ञाननास्ति' प्र० ॥ १२ नाद्विज्ञानं य० ॥ १३ तत्कारणविज्ञे य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org