SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ८५९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे तथा विज्ञान-भावादिषु नञः का गतिः ? किं प्रागादिविशेषेण नास्ति उताविशेषेव ? यदि विशेष्य नास्ति ततः प्राक्पश्चादितरेतरासामर्थ्यासंयोगेभ्यो ननु निर्वत्ताऽध्वस्त-तत्-समर्थ-सम्बद्धघटास्तित्वमेव प्रसज्यते। अथोच्येत-नैव निर्वृत्तास्तित्वादिप्रसङ्गः, वन्ध्यापुत्रादिवदविशेष्य अत्यन्तं नास्ती5 त्युच्यते । अथ कथं पुनर्वन्ध्यापुत्रो न भवति ? यदि तद्विषयोऽत्यन्ताभावः स्यात् वन्ध्यापुत्रो न सम्भवेत् । सम्भवति तु स्वयं भवितृत्वेन । तद्यथा-भवच्च तद् द्रव्यं चेतनमचे ५५१-२ भासाज्जाग्रद्विषयो रूपादिरर्थः, जाग्रद्विषयाच्च विज्ञेयात् 'अविज्ञेयम्' इति स्वप्नविषयं वस्तु तच्चातच्च भेदेनाभ्युपगम्यते ज्ञान-वचनविषयंतया सद्वाद एवाभ्युपगतोऽत्र त्वया। नो चेद् विज्ञान-विज्ञेया विज्ञाना-विज्ञेय-ज्ञान-वचनविशेषणभेदाभावादभावाविशेषात् तूष्णींभावस्ते समाश्रयणीय: स्यात् । 10 किञ्चान्यत्, तथा विज्ञानेत्यादि । 'विज्ञानमपि विज्ञानं [न] भवति, भावो भावो न भवति' इत्यादिषु नत्रः का गतिः ? विचार्य त्वया वाच्यम्, किमत्र निश्चितं सत्त्वमसत्त्वं विज्ञानादेः ? कि प्रागादिविशेषेण नास्तीति उताविशेषेणव ? इति निर्धाय ब्रूहि । तत्र यदि 'विशेष्य नास्ति' इत्युच्यते ततः प्राक्पश्चादितरेतरीसामर्थ्यासंयोगेभ्यः यथा घटः प्राग् नास्ति मृदाद्यवस्थायां पश्चात कपालत्वे इतरेतरतया पटत्वे असामर्थ्य छिद्रबुध्नत्वे असंयोगे गेहे नास्तीति ततो यथासङ्ख्यं 15 ननु निर्वृत्तेत्यादि, प्रागभावे 'निर्वृत्तोऽस्ति' इति नञ् विशेषयति, पश्चादभावेऽपि 'अध्वस्तोऽस्ति' इति, इतरेतराभावे सोऽस्ति, [अ]सामर्थ्याभावे समर्थोऽस्ति, गेहसंयोगाभावे 'बहिःसंयोगोऽस्ति' इति । तस्मादस्तित्वमेव घटस्य नञ् विशेषयति । अथोच्यते-नैवेत्यादि। अथ मा 'भूदेवं निर्वृत्तास्तित्वादिप्रसङ्ग इत्यविशेष्य 'नास्ति, न __भवति' इत्यादिपर्यायैरसिद्धयादिहेतुभ्यो वन्ध्यापुत्रादिवदविशेषा (ष्याऽ) त्यन्तं नास्तीत्युच्यते एवं 20 चेन्मन्यसे, अत्रापि ब्रूम:--अथ कथं पुनरित्यादि, बन्ध्यापुत्रनास्तित्वमपि अत्यन्ताभावाभिमतमसिद्धम्, अंतो निर्वृत्ता-ध्वस्त-तत्-सामर्थ्य सम्बन्धप्रमाणादिविशेषप्रतिषेधवाचिनैव नत्रा सामानाधिकरण्याद् भवत्येवेति वयं सम्भावयामः । यदि तद्विषय इत्यादि। यदि वन्ध्यापुत्रोऽत्यन्ताभावः स्यात् निर्वृत्त्यादिमत्प्रागभावादिस्वभावेषु न सम्भवेत्, सम्भवति तु स्वयं भवितृत्वेन, तस्मान्नात्यन्ताभावः, किं तर्हि ? सम्भवत्येवास्य 25 निवृत्त्यादि भवितृत्वभाक्ष्वर्थेषु । तद्यथा-भवच्च तत् सम्भाव्यते द्रव्यं चेतनमचेतनं च द्विविधम् । १ यतयाः प्र० ॥ २ 'विज्ञानमविज्ञानं न भवति, भावोऽभावो न भवति' इति पाठोऽप्यत्र सम्भाव्यते ॥ ३ विशेष नास्ति प्र० ॥ ४ रास्यमयअसंजोगेभ्यः य० । तुलाना पु० ८५९ पं० २१ ।। पृ० ८७२ पं० १७ ॥ ५ भदेव य० ॥ ६ पृ०८७२ पं० १७॥ ७ तविषय य०॥ ८ वाद्विस्व भा०। 'दिष्वभावेषु इत्यपि पाठोऽत्र चिन्त्यः । पृ० ८७२ पं० १७॥ ९ °वास्य न निवृत्त्यादि प्र०॥ १० °भावार्थेषु य० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy