________________
सर्वस्वभावत्वादिवर्णनम् ]
द्वादशारं नयचक्रम्
८६०
तनं च । तत्र चेतनस्य अनाद्यनन्तभवभावित्वम्, कर्मपरिवर्तान्यथात्वात्, इतरद्रव्यवत् । अनन्तरभववन्ध्या .......... प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि तद्भावानतिरिक्तत्वात् तद्वद् बालकुमारवद्वा।।
अचेतनस्यापि तद्धावानतिरिक्तत्वादनाद्यनन्तविपरिवर्तान्यथात्वाद विरुद्धं वन्ध्यापुत्रत्वम् तदन्योन्यानुगतिमन्तरेण तदभावात् शरीरारम्भवत् ।
तत्र चेतनस्येत्यादि, इदं हि चेतनमात्मद्रव्यमनाद्यनन्तभवेषु भवितुमुत्सहते, कुतः ? कर्मपरिवर्तान्यथात्वात, अनाद्यनन्तकर्मबन्धसन्तानस्य विपरिवर्तास्तिर्यङ्-नर-नरका-ऽमरभवाः, ते चानाद्य[न]न्ता भवनशीला एव स्वजात्यपरित्यागेनाऽन्यथाऽन्यथाभवन्तः, इतरद्रव्यवत पुद्गलद्रव्यवत्, यथा पुद्गलद्रव्यं रूप-रस-गन्ध-स्पर्शलक्षणमाचैतन्यापरित्यागेन भूम्युदक-वह्नि-पवन-वनस्पति-त्रस-शरीरिशरीर-शीतोष्ण-तमश्छाया-ऽऽतपोद्योतादिपरिवर्तमन्यथा तथा चानुभवति तथा चेतनात्मकर्मपरिवर्तानु- 10 भाविमनुष्यस्त्रीवन्ध्यावा (त्वा)भ्यां प्रच्युत्य जन्मान्तरे मनुष्यत्वोत्पत्तौ स्त्रीत्वोत्पत्तौ वा पुत्रवत्त्वे ५५२-२ *द्रव्यार्थाभेदात् सैव वन्ध्या पुत्रवती जायत इत्यत्र वन्ध्यापुत्र इत्येनम) दण्डकेन दर्शयति-- अनन्तरभववन्ध्येत्यादिना यावत् प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि, कस्मात् ? तद्भावानतिरिक्तत्वात, तस्मात् पूर्वस्माद् भावादनतिरिक्तः सकर्मा चेतनः, तद्वत् पूर्ववन्ध्यात्ववत् पुत्रवत्त्वपर्यायसम्भूतावपि बालकुमारवद्वेति दृष्टान्तान्तरं लोकसिद्धम्, यथा 'बालः कुमारो युवा' इत्यादि-15 पर्यायेष्वपि स एव भवति तथा वन्ध्या-पुत्रवत्त्वावस्थयोरेक एव जीव इति। एवं तावच्चेतनस्यानाद्यनन्तभवभावित्वात् तद्भावानतिरिक्तत्वाच्च तत्त्वे वन्ध्यापुत्रास्तित्वमुक्तम् ।
__ अचेतनस्यापि ब्रूमः । तद्यथा-वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां केश-नख-दन्त-मूत्रशकृत्-स्वेद-रस-रुधिर-मांसादीनां मृत्त्व-व्रीह्यादित्वसंम्भूतौ [?]वन्ध्यया स्त्रिया पुंसा वाऽऽहारितानां रक्त-शुक्रत्वादिभावेन चोपात्तानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वं तद्भावानतिरिक्तत्वादनाद्यनन्त- 20 विपरिवर्तान्यथात्वात्' इत्यादिना न्यायेनाविरुद्धं वन्ध्यापुत्रत्वम् । तत् साधयति-तदन्योन्यानुगतिमन्तरेण तदभावात्, यद् यदन्योन्यानुगतिमन्तरेण न भवति तत् तत् तस्यैव तदेव वा, शरीरारम्भवत, यथा शरीरं तेषां पुद्गलाना[मनाद्यनन्तभवभाविपरिवन्यिथात्वादन्योन्यानुगतिमन्तरेणाभावाच्च तान्येव तानि जीवपुद्गलद्रव्याणि तथा वन्ध्याया एव पुद्गलाः पुत्रपुद्गला इत्यंप्यविरुद्धं बन्ध्यापुत्रत्वम् । तस्मादस्ति वन्ध्यापुत्रः ।
१ यंङ्नरका य० ॥ २ भवंशीला भा० । भवशीला य० ॥ ३ °न्यथाभवन्त य० ॥ ४ पुद्गलस्य द्रव्यवत् प्र० ।। ५ मूर्त्याचे य० । 'मूर्ति आचैतन्यापरित्यागेन' इति पदच्छेदः । अचेतनस्य भाव आचैतन्यम् ।। ६ वन्ध्यावाभ्यां प्रत्युव्युत्य य० । वन्ध्यावाभ्यां प्रत्युद्युत भा० । (वन्ध्याभवाभ्यां प्रच्युत्य ? ) ॥ ७ द्रव्यार्थभेदात् प्र० ॥ ८°संभूतो वध्याया स्त्रिया पुंसा वा य० । संभूतौ वन्ध्याया पुंसा वा भा० ॥ ९ इत्यस्यविरुद्धं य० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org