________________
८६१
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वादशारान्तरे ____तस्मात् सर्वमिदं सर्वस्वभावमशून्यमिति प्रतिपत्तव्यम् अशून्यगृहवत् प्रवेष्टस्थातृनिर्गन्तुकल्पोत्पादस्थितिविनाशसहितमेव सर्वमेकमनेकात्मकं व्यवहारप्रव्यक्तापरिकल्पिततदतदाकारं स्वतः परत उभयतश्चास्त्येव।
अथ कथं स्वपरोभयभावः ? संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यः । 5 संसिद्धिस्तावत् तदात्मभेदैकोभावेन सद्भावः। दीर्घत्वं दीर्घऽस्त्येव अपरायत्तत्वात् । यदि त्वस्वविषयमेतत् स्यात्, नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, न च मध्यमा शक्रयष्टिदीर्घतायाम् । एवं ह्रस्वत्वमपि ।
५५३-१ तस्मात् सर्वमिदमित्यादि । सर्वशून्यवादे साधन-दूषणासम्भवात् प्रतिपाद्य-प्रतिपादकव्यवहारा
भावात् विज्ञानमात्रपक्षस्यापि सर्वेकज्ञपुरुषमात्रत्वाभ्युपगमापत्तेः स्वप्न-वन्ध्यापुत्रादिदृष्टान्तानां च 10 सर्वसर्वात्मकत्वे सति असिद्धेः इदं 'सर्वस्वभावमशून्यम्' इति प्रतिपत्तव्यम् त्वदुक्तार्थविपर्ययेण अंशून्य
गृहवत् प्रवेष्टव-स्थातृ-निर्गन्तृकल्पैरुत्पाद-स्थिति-विनाशैः सहितमेव सर्वमेकमनेकात्मकमगुलिवक्रप्रगुणत्वादिवत् विचित्र वर्णकृकलौसवद्वा व्यवहारेण "प्रव्यज्यमानैः सह-क्रमभाविभिरपरिकल्पितैरेव सत्यैर्भेदैनित्यादिभिस्तच्चातच्च वस्तु तदतदाकारविपरिणामदर्शनाद् व्यवहारप्रव्यक्तापरिकल्पित
तदतदाकारं स्वतः परत उभयतश्चास्त्येव, न नास्ति इति ग्राह्यमुक्तन्यायात् । 15 अत्राह-अथ कथं स्व-परोभयभावः ? इति । अत्र ब्रूमः--संसिद्धि-संयुक्त्यनुत्पादसामग्रीदर्शन-सदादर्शनेभ्यो हेतुभ्यः ।
संसिद्धिस्तावत् 'सम्' इत्येकीभावे, सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभूताः सिध्यन्तीत्यत आह--संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, संसिद्धिः सहभावः सहनिर्वृत्तियुगपवृत्तिरित्यनर्थान्तरम् । तद् भावयति-दीर्घत्वं दीर्धेऽस्त्येव, अपरायत्तत्वात् स्वायत्तत्वादेवेत्यर्थः । 20 तद्धि दीर्घत्वं स्वायत्तमेवानामिकायाः। यदि स्व (त्व)स्वविषयमेतत् कनिष्ठिकाह्रस्वत्वापेक्ष५३-२ मनामिकादीर्घत्वं त्वन्मतेन स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्,
मध्यमां दीर्घा दृष्ट्वा स्वगतेन ह्रस्वत्वपरिणामेन ह्रस्वा सती दीर्घा पुनर्न स्यादेवार्थान्तरापेक्षयापि स्वात्मन्यविद्यमानदीर्घत्वात् खपुष्पवत् मध्यमायत्तह्रस्वत्वात्, भवति तु दीर्घापि स्वायत्तकनिष्ठिकापेक्षस्वगतदीर्घत्वपरिणामात् । तस्मात् स्वायत्तं दीर्घत्वमनामिकायाः। तथा न च मध्यमा शक्रयष्टि25 दीर्घतायां शक्रयष्टयपेक्षमध्यमाह्रस्वपरिणामात् स्वगताद् ह्रस्वेति न चानामिकापेक्षात् स्वदीर्घत्व
१ दृश्यतां पृ० ८२७ पं० १८॥ २ लाश प्र० ॥ ३ * * एतदङ्कितः प्रव्यज्य' इत्यत आरभ्य व्यवहार इत्यन्तः पाठो य० प्रती नास्ति ।। ४ पृ०८२७ पं०६॥ ५ भावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकी प्र० ।। ६ यदि ह्यस्वविषय इत्यपि पाठोऽत्र भवेत् । दृश्यतां पृ० ८६२ पं० ७-८॥ ७ णामेनाह्रस्वा प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org