________________
स्वपरोभय भावसाधनम् ]
द्वादशारं नयचक्रम्
८६२
स्वगतनानारूप्यानतिक्रमात्तु एकपुरुषपितृपुत्रत्वादिवत् तथा तथा नियमवृत्ते र्हस्वत्वदीर्घत्वा व्याघातः । एवं नेतरेतराभावेतरेतराश्रयासिद्धयः । ह्रस्वेऽपि च दीर्घत्वं दीर्घFast स्वत्वम्, अप्रतिद्वन्द्वित्वात् इष्टह्रस्वदीर्घस्वात्मवत् । एवमेव चेतरेतरयोगविचा
रानवतारः ।
परिणामात् 'दीर्घा स्यात्' इति वर्तते, भवति तु । तस्मादनामिकाया मध्यमायाश्च कनिष्ठिकापेक्षाभिमतं 5 दीर्घत्वं स्वायत्तमेव दीर्घतरापेक्षे ह्रस्वत्वे संवृत्तेऽपि स (स्व) तो ह्रस्वतरापेक्षया दीर्घत्वस्यावस्थितत्वात् । एवं ह्रस्वत्वमपीत्यनेनैव न्यायेन 'कनिष्ठिकाया ह्रस्वत्वमपि स्वायत्तमेव' इत्यतिदिशति । यदि स्वविषयमेतत् स्यात् न कनिष्ठिकाऽनामिकादीर्घतायामपि से ( प ) ववयवादिभ्यो दीर्घा स्यात्, न चानामिका मध्यमादीर्घता यामिति ।
कस्माद्धेतोः ? स्वगतनानारूप्यानतिक्रमात्तु यस्मादात्मगता एव तास्ताः सापेक्ष-निरपक्षाः 10 परिणामशक्तयो ह्रस्व-दीर्घ- स्थूल-कृश-लैघु-गुरु- नित्याऽनित्य-मूर्त मूर्त-चेतना [- चेतना]दयः पुद्गलाना- ५५४-१ मन्येषां चाकाशा-ऽऽत्म - कालादीनां स्वे स्वे परिणामा जैनेन्द्रदर्शनात् सर्वसर्वात्मकद्रव्यार्थनये वा “विधि[वि]ध्यादिभङ्गान्तरे । किमिव ? एकपुरुषपितृपुत्रत्वादिवत्, यैथैक एव पुरुषः स्वपुत्त्रापेक्षया “पितृत्वेन परिणतः स्वपितपेक्षया च पुत्रत्वेन तथा मातुल - भागिनेय- भ्रातृ - श्वशुर-पौत्र - दौहित्र भ्रात्रीयप्राच्योदीच्य-ह्रस्व-दीर्घ-पण्डित - मूर्ख स्वामि- दासादिशक्तिभिः परिणमति स्वगताभिरापेक्ष ( क्षि ) कैश्च 15 ज्ञान-दर्शन- सुख-दुःख-क्रोध-हर्ष-भयादिभिरुत्पाद-व्यय- ध्रौव्यलक्षणत्वाद् वस्तुत्वात् । न च ताः शक्तयस्तत्त्राविद्यमानाः सम्भाव्यन्ते खपुष्पादाविव । न च तासां शक्तीनां परस्परविरोधो नाप्यनवस्था न च सङ्करः स्वपुत्रापेक्षया पितृत्वस्य नियतत्वात् एवं शेषाणामपीत्यत आह दान्तिकम् - तथा तथा ५२७-१ नियमवृत्तेः " ह्रस्वत्व-दीर्घत्वाव्याघात इति एतद् विरोधाभावोपनयनम्, तथा सङ्करा-ऽनवस्थादोषाभावोपनयनमपि द्रष्टव्यम् ।
एवं नेतरेतराभावेतरेतराश्रयासिद्धय इति । अनेनैव स्वगतनानारूप्यानतिक्रमात्वेकपुरुषपितृ-पुत्रत्ववत् तथा नियमप्रवृत्तेर्हस्वत्व-दीर्घत्वाव्याघात इति दोषपरिहारन्यायेन ह्रस्वसद्भावो ५५४-२ दीर्घस्याभावो न भवतीति सहानवस्थानदोषपरिहारः कृतो भवतीति तस्मादेव हेतोरुक्तदृष्टान्तवत् । तथा " " इतरेतराश्रयत्वादसिद्धिः' इत्येषोऽपि दोषो नास्ति उक्तवत् स्वाश्रयत्वादेव ।
93
अत एवाप्रतिद्वन्द्वित्वम्, विरुद्धाभिमतसर्वधर्माविरोधवृत्तत्वत् अत, इत्थं साधनम् - ह्रस्वेऽपि 25 च दीर्घत्वमिति पक्षः, द्वितीयो दीर्घत्वेऽपि ह्रस्वत्वमिति । एक एव हेतुः - अप्रतिद्वन्द्वित्वादिति ।
१ ह्रस्वव य० ।। २ दृश्यतां पृ० ८६६ पं० १३ ।। ३ यामति य० ।। ४ पृ० ८६२ पं० २१ ।। ५ ° लघुगुरुलघुनित्या भा० । (लघु-गुरु-गुरु लघु ? ) ।। ६ विधिद्यादिर्भ भा० । विव्यादिर्भ य० । पृ० २४२ पं० १ ।। ७ यथैव प्र० ।। ८ पुत्रत्वेन प्र० ।। ९ स्वसुर प्र० ।। १० स्वमताभि भा० । स्वमत्यभि य० ।। ११ ह्रस्वदीर्घ य० । १२ पृ० ८६२ पं० १ ।। १३ पृ० ८३० पं० ५ । १४ स्वाद इत्थं भा० । त्वात्तद इत्थं य० ।। " त्वादत इत्थं ' इति पाठ: सम्भाव्यते ।। १५ पृ० ८३० पं० ६ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org