Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
द्वादशारं नयचक्रम्
व्याख्यानदिग्दर्शनसाधनं तु तद्यथा-- - व्यवहारैकता" क्षणिक - शून्यता - कृतकत्वात्, घटवत् ।
स्याद्वादनाभिकरणम् ]
व्यवहृत्येकत्व...
दृष्टान्तः परस्परापेक्षवृत्तिसमस्तन यमतै कमत्यानुवृत्तिनित्यं नित्यानित्य-अनित्यत्वानेकान्तविकल्पात्मकानुगताकृतक-कृतकाकृतक-कृतकत्वानेकान्तविकल्पात्मकः सिद्ध एवेति प्राग्व्याख्या [ता]र्थत्वात् ।
५६४-२
व्याख्यानदिग्दर्शनसाधनं तु एतस्यानन्तराभिहितनाभिक्रियानेकान्तत्वप्रख्यापनसाधनस्य 5 व्याख्यानदिशं दर्शयत्येतत् साधनम् अतीतानां द्वादशानामराणां प्रत्येकं यथासङ्ख्यप्रस्थानार्थोपन्यासार्थत्वात्, तद्यथा-व्यवहारैकतेत्यादिदण्डकप्रतिज्ञोपन्यासो यावच्च्छून्यता[[ ]नित्यः शब्द इति । हेतुर्व्यवहृत्येकत्वेत्यादिदण्डको यावत् क्षणिकशून्यताकृतकत्वादिति ।
[ ८७८
"शून्यताऽनित्यः शब्दः,
विधिनयस्य तावद् यथालोकग्राहमेव वस्तु, यथा लोकेन परिगृहीतमेव नित्यानित्य-कारण-कार्यक-नानात्वाद्यशक्यप्राप्त्यप्रयोजनत्वाविचारेण शक्यप्राप्तिप्रयोजन वैत्कर्मफल सम्बन्ध मात्रपरिज्ञानमपौरुषे - 10
यानाद्यनिधनागमगम्यमिति दर्शनम् ।
विधिविधिस्तु
क्रियाविधायिवाक्यपरिज्ञानस्याप्यशक्यप्राप्त्यप्रयोजनत्वादिदोषाविमोक्षात् स्ववचनादिविरोधाद् वस्तुतत्त्वपरिज्ञानाविनाभावादयुक्तेः सर्वैककारणमात्रत्वम् । तच्च पुरुष - कालनियति-स्वभाव-भावाद्यन्यतमात्मकम्, आत्मप्रभेदमात्रावस्थाभेदमात्रव्यवहृतेरिति ।
तस्यापि विधिविधेरवस्थावस्थार्वद्भेदोपादानावश्यंभावात् परमशून्य-क्षणिकाद्यनभिप्रेतवाद- 15 प्रसङ्गाच्चासन्निधिव्यावृत्तभवनवृत्तिद्वैतवादः श्रेयान् प्रकाश-प्रवृत्ति-नियमात्मभोग्यसत्त्व रजस्तमोमय- ५६५-१ प्रकृतिव्यापारस्योदासीनभोक्तृपुरुषोपभोगार्थप्रवृत्तेरिति विधिविधीयते नियम्यते चेति विधिविधिनियमनयदर्शनं 'न सर्वमेकात्मकं किं तर्हि ? सर्वं सर्वात्मकम्' इति ।
अस्यैव वा विकल्पान्तरं विध्युभयनयदर्शनस्य प्रकृति-पुरुषयोर्गुणत्रयव्यवस्थानुपपत्तेः स्थित्युत्पत्तिविनाशानात्मकत्वादसत्त्वापत्तेश्च भावद्वैतं भाव्य-भवितृभेदात् प्रतिविशिष्टबुद्धिस्वतन्त्रा - 20 धिष्ठात्रधिष्ठेयास्वतन्त्रत्वद्वैविध्यादी व रेशितव्यात्मकं द्वैतमिदमिति ।
एतस्यापि प्रकृतिपुरुषस्य परस्परात्मानापत्तों कर्म-फलसम्बन्धाभावे संसार - मोक्षाद्यनुपपत्तेरीश्वरस्यापि च प्रवर्त्यपुरुष ↑ कैर्मवशप्रवृत्तेरनीश्वरत्वादेकैकस्य सर्वत्वमीश्वरत्वं च सर्वस्य च चेतनाचेतनात्मकस्य परिवृत्त्यान्योन्यात्मकत्वानुभवनात् सर्वपुरुषाणां ↑ कर्मकृतत्वात् कर्मणां पुरुषकृतत्वादत्मनैवात्मनः कार्यकारणत्वादेकं सर्वं सर्वं चैकमिति विधिनियम्यत्वाद् विधिनियमनयदर्शनमिति ।
१ नित्य नित्या अनित्यत्वाऽनेकान्त भा० । नित्यानित्याअनित्यत्वानेकान्त य० ।। २ कृतक नास्ति भा० ॥ ३ वनेका भा० ॥ ४ एवंस्था भा० ॥ ५ हत्यैकत्वे प्र० ।। ६ ततद्यथा य० । दृश्यतां पृ० ११ पं० ३ ।। ७ 'जनत्वकर्म य० ॥ ८ 'वतभेदो भा० ॥ ९ ('च्च सन्निध्यापत्तिभवनवृत्ति ? ) । दृश्यतां पृ० २६१ पं० १५ ।। १० 'नयमद ं य० । ११ न्तर प्र० । १२ 'श्वरेसितद्यात्मकं प्र० । “श्वरेशितद्वयात्मकम्' इत्यपि पाठोऽत भवेत् ।। १३ 11 एतदन्तर्गत: पाठो नास्ति य० १४ चा चे' भा० ॥ १५ त्वात्तुभ भा० ॥ १६ दात्मनः भा० ॥ १७ कारत्वा प्र० । दृश्यतां पृ० ३५० ।। १८
।
यमेनय प्र० ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252