Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८७९]
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
एषां चतुर्णां द्रव्यार्थत्वादकृतकनित्यत्वैकान्तः । भवितृ-भवनयोर्द्रव्य-क्रिययोरन्यतरप्रधानोपसर्जनत्वानुपपत्तिरभावापत्तेः, अतो विधिनियमौ प्रधानावेव द्रव्य भावपरिग्रहात्मकावित्युभय [ नय] दर्शनम् ।
५६५-२
अस्यापि मतस्य परस्परनिरपेक्षस्वातन्त्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशस्वावस्थयोरभावत्वं खपुष्पवत् । अतः परतः स्वतश्च तद्व्यक्त्याकृत्याख्यं गुणप्रधानभावेन द्रव्यादि सत् परतः 5 सत्तादि स्वत इत्यसदपि भवतीति विधिनियमे ( मौ) विधीय ( ये ) ते इति विधिनियमविधिनैयदर्शनम् ।
अस्यापि असदुत्पत्तिवाञ्छिनो नयस्यासन्निहितखपुष्पादिवत् सतोऽसतः सदसतो वा सताऽसता सदसता वा सम्बन्धाभावात् सत्करत्वाभावाच्चासदुत्पत्त्ययुक्तेः प्रवृत्तिनिवृत्तिरूपमितरेतराभावलक्षर्णैमभवद् भवति वस्त्विति उभयोभयनयदर्शनम् ।
[ नयचक्रतुम्बे
अस्यापि दर्शनस्य पराभावस्य स्वरूपविशेषासम्भवेऽनवस्थानाद् द्वयोरपि अभाव - संकररूपादि10 दोषादयुक्तेर्भवितृप्रधानं भवनोपसर्जनत्वमिति उभय[नियम]नयमे॑तम् ।
एतेषु च चतुर्षु [उ]भयविध्यादिषु कृतकाकृतकत्वादनित्यनित्यत्वा वलम्बि चतुरवयवः प्रतिज्ञाहेतु व्याख्याविकल्पः ।
अस्यापि यस्य भेदप्राधन्येऽन्वयाभाव उपसर्जनत्वाद् भेदस्यापि तदविनाभाविनोऽभावो ५६६-१ गगनोदुम्बरकुसुमवत् सामान्य-विशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां 15 त्यागादैग्नीन्धनवत् तत्त्वान्यत्वोभयासत्ता [s] वक्तव्यता श्रेयसीति नियमनयमतमेतत् ।
एतदपि मत[म् ‘अ]वक्तव्यम् इति वक्तव्यत्वानतिवृत्तेः 'स्ववाग्विरोधादेरनिरूपित वस्तुस्वतत्त्ववादिनश्चावादित्वप्रसङ्गाद् रूप-रसाद्यत्यन्त विविक्तदेशभिन्न विशेषसमुदेयमात्रं वस्त्विति नियमस्य विधिः ।
१३
इदमपि नयमतमशोभनम्, द्रव्यभवनव्यावृत्तौ " प्रतिज्ञातायां "कोऽवाभेदभावो नाम समुदायि-20 ( ? ) संवृतिसमुदायिनामुत्पाद- विनाशव्यतिरिक्तस्वरूपाभावादभावत्वापत्तेः क्षणे क्षणेऽत्यन्तभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थत्वाद् वस्तुन इति नियमो विधीयते नियम्यते चेति नियमोभयनयमतम् ।
अस्यापि नयमतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्यय-षष्ठ्यर्थाभ्यां सहभाविभावाभ्युपगमादनिर्वहनी यत्वादभावपरमार्थ वस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति ।
एतेषु चतुर्षु नियम-नियमविध्यादिषु कृतकत्वादनित्य इति हेतु प्रतिज्ञाव्याख्याविकल्पः, सर्वत्र 25 व्याख्यातार्थघटवदिति दृष्टान्तः । " एष सर्वार्थ पिण्ड []नैकः साधनप्रयोगः सहव्याख्यानदिक्प्रदर्शनेन
कृतः ।
३ प्रवृत्तिरूप य० ॥
४ णभवद्
१ 'नयमद प्र० ॥ २ ° त् सत्करत्वाभावात् सत्करत्वाभावाच्चा ं य० ॥ भवति विस्त्विति भा० । 'णमभवद् भवति स्त्विति य० ॥ ५ मतमतेषु च भा० । 'मतेषु च य० ॥ ६ ° न्याऽन्वया भा० ॥ ७ दग्वीत्वन' य० । दधीत्वन' य० ॥ ८ स्ववाग्निरों प्र० ॥ ९ 'विवित्तादेश प्र० । १० दाय
१२ कोशभेदभावो प्र० ॥
१३
संवृत्ति प्र० । ( संवृतिसत्समु ? ) ॥
य० ॥ ११ प्राज्ञतायां प्र० ॥ १४ एकसर्वार्थ य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252