Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 188
________________ ८७७] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [नयचक्रतुम्बे __ तदनुयातवृत्तिसाधनं नाभिक्रिया। तद्यथा--विधि-विधि [विधि-विध्युभय-विधिनियम-उभय-उभयविधि-उभयोभय-उभयनियम-नियम-नियमविधि-नियमोभय-नियमनियमा] एकप्रबन्धेनान्योन्यापेक्षवृत्तयः सत्यार्थाः, एतद्भङ्गनियतस्याद्वादलक्षणः शब्दः स्यानित्यः स्यान्नित्यानित्यः स्यादनित्यः, विध्यादिद्वादशविकल्पनियताकृतक-कृतकाकृतक6 कृतकत्वानेकान्तविकल्पात्मकत्वात्, घटवत्। जिनवचनस्यानुगमाद् द्वादशानामराणामशेषशेषशासनसंग्राहिणामित्थं तुम्बक्रिया स्याद्वादनाभिकरणम्, तत्प्रतिबद्धसर्वारावस्थानात्, अतोऽन्यथा विशरणात्, यथोक्तम्५६४-१ जैम्मि कुलं आयत्तं तं पुरिसं आयरेण रक्खाहि । ण हु तुंबम्मि विणठे अरया साहारणं(या) होंति ॥ [ ] इति । तद्यथा-विधिविधीत्यादि साधनदण्डको यावद् घटवदिति दृष्टान्तः । एवं तुम्बकरणं सविकल्पद्वादशा[र]नयचकवाक्यानयनसाधनम् । तत्र विधिभङ्गाश्चत्वार आद्या उभयभङ्गा मध्यमाश्चत्वारो नियमभङ्गाश्चत्वारः पाश्चात्या यथासङ्ख्यं नित्यप्रतिज्ञाः ४ नित्यानित्यप्रतिज्ञाः ४ अनित्यप्रतिज्ञाश्च ४। विधिः विधेविधिः विधेविधिनियमौ विधेनियम इति प्रथमभङ्गचतुष्टयम्, मध्यम विधिनियमौ विधिनियमयोविधि: "विधिनियमयोविधिनियमौ विधिनियमयोनियम इति, पाश्चात्यमपि 15 नियमो नियमस्य विधिः नियमस्य विधिनियमौं नियमस्य नियम इत्येते द्वादशाप्यरनया एकप्रद्यो:: (प्रबन्धे) नान्योन्यापेक्षवृत्तयः सत्यार्था इति सँ (सं)पिण्डरूपेण प्रतिज्ञा, एतद्भङ्गनियतस्याद्वादलक्षण: शब्द इति, स्यानित्यः स्यानित्यानित्यः स्यादनित्यः शब्द इति, तत्संक्षेपस्त्रिविधो हेतुरपि विध्यादिद्वादशविकल्पनियताकृतक-कृतकाकृतक-[कृतकत्वानेकान्तविकल्पात्मकत्वादिति प्राग्व्याख्यातभङ्गार्थसमाहारात्मक एवायं प्रतिज्ञावत् तन्नयदर्शनविकल्पैकवाक्यात्मकत्वाद् घटवदिति १ इयं गाथा अणहिलपुरपत्तने खेतरवसीपाडामध्ये विद्यमानायाम् आवश्यकनियुक्तेर्हस्तलिखितायां तालपत्रात्मिकायां प्रतौ दृष्टाऽस्माभिः, मुद्रितायां तु न दृश्यते । आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ० २६३] इत्थमुपलभ्यते- “आह चसुत्तत्थेसु अचिंतण आएसे वुड्ढसेहगगिलाणे। बाले खमए वाई इड्ढीमाइ अणिड्ढी य॥१॥ एएहि कारणेहिं तंबभूओ उ होति आयरिओ। वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ।। २ ।। जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा नहु तुंबम्मि विणढे अरया साहारया होति ।। ३ ।। वाले सप्पभए, तहा इड्ढिमंतंमि आगए पाणगादिगए आयरिए लहत्तं, एवं वादिम्मि वि, अणिस्सरपव्वइयगा य एए त्ति जणापवादो, सेसं कंठं"। आवश्यकसूत्रस्य मलयगिरिविरचितायां वत्तौ त्वेवमुपलभ्यते- “तथा चाह- सुत्तत्थेसु अचिंतण. . . . . . ।।१॥ ...... ॥ २॥...... ।।३॥ आदेशे प्राघूर्णके, वृद्ध, शैक्षके, ग्लाने, तथा बाले लघुवयसि,क्षपके च . . . . . . . . एतदेवाह-जण कुलं आयत्तं तं परिसं आयरेण रक्खेह। न हु तुंबम्मि विण→ अरगा साहारगा हुंति ।। १३३ ॥ येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो नह नैव तुम्बे विनष्टे अरकाः साधारकाः साधारा भवन्ति ।" इति आवश्यकनिर्यक्तेर्मलयगिरिसूरिविरचितायां वृत्ती इच्छाकारसामाचारीवर्णने ॥ २ रक्खाहि भा० ॥ ३ ण हि भा० ।। ४ विधिविधिनियमौविधेनियम इति भा० ।। विधिविधिनियमोविधिनियम इति य०॥ ५ विधिनियमयोविधिनियमयोविधिनियमनियमयोनियम इति य० ॥ ६ एकप्रद्य (व्य? )ोना य० । एकप्रद्यद्यना भा०। (एकप्रघट्टेना?)॥ ७ दृश्यतां १० ८८० पं० ७॥ ८ °ताकृतककृतकाकृतकत्वाअनकान्त य० । ताकृतकाकृतकत्वाअनेकान्त भा०। दृश्यतां पृ० ८७८ पं० ४॥ ९ °व्यातभ' भा० । व्याख्यार्थभ य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252