Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 183
________________ सर्वास्तित्वसाधनम् द्वादशारं नयचक्रम् ८७२ ननु यथा तिलेष्वप्यव्यक्तं तैलं नोपलभ्यते तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते सिकतानामेव तथा तथा विपरिवृत्तेः सिकतानामभावे तिलमूलाद्यभावात् । तद्वदुदक ........ द्रव्येषु ........ भावमन्यस्यात्मनि । तथा सदा दर्शनात् । संसिद्धयादिहेतुभिः सम्पादितसर्वांत्मकैकत्वादत्यन्तसत्यास्तेऽदर्शनादसन्त इति कल्प्येरन् । तदपि नास्त्येवादर्शनम्, भावितवदेकभवनात्मकत्वात् ।। तस्मात् स एवातीतः ..... । यथोक्तम् तदेजति तन्नेजति तद् दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ [शुक्ल यजु० वा० सं० ४०।५] अत्रोच्यते-नन यथेत्यादि । को वा ब्रवीति-सिकतासु नास्ति तैलं तिलेष्वेवास्तीति ? किन्तु यथा तिलेष्वप्मेव्यक्तं स्वाभिव्यक्त्युपायाद्यंत (द्यन्त्र) पीडनादेर्म ()ते नोपलभ्यते चर्वणादिक्रियासु 10 क्षीरवदास्वाद्यमान कृत्तिलानां मूलाङ्कुराद्यवस्थासु च तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते ५६१-१ सिकताभूप्रदेशोप्ततिलबीजस्याङ्कुर-मूल-पर्णादिप्रभवे सिकतानामेव तथा तथा विपरिवृत्तेः सिकता- : नामभावे तिलमूलाद्यभावात् सिकतास्वेव तैलमस्ति तद्वदुदकादिद्रव्येषु समासदण्डकोक्तेषु द्रव्येष्वस्ति तैलं यावद्धावमन्यस्यात्मनोति तिलतयोत्पन्नजीवद्रव्यस्यापि तैलवत्त्वात् व्यक्ताव्यक्तरूपेण सर्वस्य सर्वत्र भावात् समानमेतत् । तथा सदा दर्शनात, सर्वदा भावस्य भागान्तरादर्शनेऽपि दर्शनमेव । कस्मात् ? संसिद्धयादिहेतुभिः सम्पादितसर्वात्मकैकवस्तुत्वात् प्राक्पश्चादितरेतर-देश-प्रमाण-सामर्थ्य-संयोगात्यन्ताभावानां प्रतिपक्षभूता भावा एवात्यन्ताभूताभिमतवन्ध्यापुत्रान्ता इत्युक्तत्वादत्यन्तसत्यास्ते सन्तो. (अर्थाः) अदर्शनाद् दृष्टय (ष्टि) शक्तिवैकल्याददृश्यमानभागान्तरा असन्त इति कल्प्यन् न परमार्थतोऽसन्तो न वा न दृश्यन्ते, यस्मात् तदपि नास्त्येवादर्शनम्, कस्मान्नास्ति ? यस्माद् भावितं सामग्रीदर्शनहेतौ 20 'एकभवनात्मकम्' इति, तद्वद् भावितवदेकभवनात्मकत्वात् अतीतन्यायभावितसर्वात्मकभवनात्मकत्वात्, निविभागस्य हि वस्तुनः पर-मध्यभागाः शक्तिभेदात् कल्पिता अपि वस्त्वभेदात् तदेव ते, ५६१-२ भागस्य दृश्यत्वात् ततोऽपृथक्त्वाद् भागान्तराणामपि दर्शनमेव । 'निविभागमेव हि सद्वस्तु, विभागनेक्षणं भ्रान्तिः' इत्युक्तम् । तस्मात् स । वातीत इत्यादि गतार्थम् । तस्मात् सदा दर्शनमेव नादर्शनम् । यथोक्तमित्यादिना प्रागतीतं न्यायं ज्ञापकत्वेनाह। 'तदेजति तेन्नजति' इत्यादि "ऋग्द्वयं 25 तत्रैव व्याख्यातत्वान्न विवियते । न्यायं तु सप्रभेदं स्मारणार्थमतिदिशति-भावितानेकार्थद्रव्यार्थ १ प्यक्तं भा० ॥ २ याद्यत्पी भा०। (याद्दन्तपी? ) ॥ ३ 'नक्षत्ति य० ॥ ४ भावांतरातदर्श य० ॥ भावांतरातद्दर्श भा० । पृ०८५० ५० १५॥ ५ पृ०८५९५०२।। ६ 'सन्तोऽप्यर्था' इत्यपि स्यादत्र ॥ ७ (द्रष्टशक्ति)।। ८ रस्तन् पर य० ॥ तुलना-पृ० ८५० ५० १३॥ ९ भागा प्र०॥ १० तपथ य० ॥ ११ एवातीति य०॥ १२ तन्नेजति प्र०। पृ० १९२ पं०३, टिपृ०६९पं०१। १३ अत्र 'ऋग्द्वयम्' इत्युक्तम्, तत्र 'तदेजति' इत्यादि प्रथमा ऋक्, द्वितीया का ऋगत विवक्षितेति स्फुटं न ज्ञायते, तथापि 'पुरुष एवेदं सर्वम्' इत्यादि पुरुषसूक्तं त्वत्र विवक्षितं भवेदिति भाति । दृश्यतां पृ० १८९५०.५, पृ० १९२ पं०३ ॥ १४ कार्यय० । क्यर्थ्य भा०॥ - 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252