________________
सर्वास्तित्वसाधनम् द्वादशारं नयचक्रम्
८७२ ननु यथा तिलेष्वप्यव्यक्तं तैलं नोपलभ्यते तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते सिकतानामेव तथा तथा विपरिवृत्तेः सिकतानामभावे तिलमूलाद्यभावात् । तद्वदुदक ........ द्रव्येषु ........ भावमन्यस्यात्मनि ।
तथा सदा दर्शनात् । संसिद्धयादिहेतुभिः सम्पादितसर्वांत्मकैकत्वादत्यन्तसत्यास्तेऽदर्शनादसन्त इति कल्प्येरन् । तदपि नास्त्येवादर्शनम्, भावितवदेकभवनात्मकत्वात् ।। तस्मात् स एवातीतः ..... । यथोक्तम्
तदेजति तन्नेजति तद् दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ [शुक्ल यजु० वा० सं० ४०।५] अत्रोच्यते-नन यथेत्यादि । को वा ब्रवीति-सिकतासु नास्ति तैलं तिलेष्वेवास्तीति ? किन्तु यथा तिलेष्वप्मेव्यक्तं स्वाभिव्यक्त्युपायाद्यंत (द्यन्त्र) पीडनादेर्म ()ते नोपलभ्यते चर्वणादिक्रियासु 10 क्षीरवदास्वाद्यमान कृत्तिलानां मूलाङ्कुराद्यवस्थासु च तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते ५६१-१ सिकताभूप्रदेशोप्ततिलबीजस्याङ्कुर-मूल-पर्णादिप्रभवे सिकतानामेव तथा तथा विपरिवृत्तेः सिकता- : नामभावे तिलमूलाद्यभावात् सिकतास्वेव तैलमस्ति तद्वदुदकादिद्रव्येषु समासदण्डकोक्तेषु द्रव्येष्वस्ति तैलं यावद्धावमन्यस्यात्मनोति तिलतयोत्पन्नजीवद्रव्यस्यापि तैलवत्त्वात् व्यक्ताव्यक्तरूपेण सर्वस्य सर्वत्र भावात् समानमेतत् ।
तथा सदा दर्शनात, सर्वदा भावस्य भागान्तरादर्शनेऽपि दर्शनमेव । कस्मात् ? संसिद्धयादिहेतुभिः सम्पादितसर्वात्मकैकवस्तुत्वात् प्राक्पश्चादितरेतर-देश-प्रमाण-सामर्थ्य-संयोगात्यन्ताभावानां प्रतिपक्षभूता भावा एवात्यन्ताभूताभिमतवन्ध्यापुत्रान्ता इत्युक्तत्वादत्यन्तसत्यास्ते सन्तो. (अर्थाः) अदर्शनाद् दृष्टय (ष्टि) शक्तिवैकल्याददृश्यमानभागान्तरा असन्त इति कल्प्यन् न परमार्थतोऽसन्तो न वा न दृश्यन्ते, यस्मात् तदपि नास्त्येवादर्शनम्, कस्मान्नास्ति ? यस्माद् भावितं सामग्रीदर्शनहेतौ 20 'एकभवनात्मकम्' इति, तद्वद् भावितवदेकभवनात्मकत्वात् अतीतन्यायभावितसर्वात्मकभवनात्मकत्वात्, निविभागस्य हि वस्तुनः पर-मध्यभागाः शक्तिभेदात् कल्पिता अपि वस्त्वभेदात् तदेव ते, ५६१-२ भागस्य दृश्यत्वात् ततोऽपृथक्त्वाद् भागान्तराणामपि दर्शनमेव । 'निविभागमेव हि सद्वस्तु, विभागनेक्षणं भ्रान्तिः' इत्युक्तम् । तस्मात् स । वातीत इत्यादि गतार्थम् । तस्मात् सदा दर्शनमेव नादर्शनम् ।
यथोक्तमित्यादिना प्रागतीतं न्यायं ज्ञापकत्वेनाह। 'तदेजति तेन्नजति' इत्यादि "ऋग्द्वयं 25 तत्रैव व्याख्यातत्वान्न विवियते । न्यायं तु सप्रभेदं स्मारणार्थमतिदिशति-भावितानेकार्थद्रव्यार्थ
१ प्यक्तं भा० ॥ २ याद्यत्पी भा०। (याद्दन्तपी? ) ॥ ३ 'नक्षत्ति य० ॥ ४ भावांतरातदर्श य० ॥ भावांतरातद्दर्श भा० । पृ०८५० ५० १५॥ ५ पृ०८५९५०२।। ६ 'सन्तोऽप्यर्था' इत्यपि स्यादत्र ॥ ७ (द्रष्टशक्ति)।। ८ रस्तन् पर य० ॥ तुलना-पृ० ८५० ५० १३॥ ९ भागा प्र०॥ १० तपथ य० ॥ ११ एवातीति य०॥ १२ तन्नेजति प्र०। पृ० १९२ पं०३, टिपृ०६९पं०१। १३ अत्र 'ऋग्द्वयम्' इत्युक्तम्, तत्र 'तदेजति' इत्यादि प्रथमा ऋक्, द्वितीया का ऋगत विवक्षितेति स्फुटं न ज्ञायते, तथापि 'पुरुष एवेदं सर्वम्' इत्यादि पुरुषसूक्तं त्वत्र विवक्षितं भवेदिति भाति । दृश्यतां पृ० १८९५०.५, पृ० १९२ पं०३ ॥ १४ कार्यय० । क्यर्थ्य भा०॥
-
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org