________________
८७३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशारान्तरे पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । .... उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ऋग्वेदः १०८।९०] भावितानेकार्थद्रव्यार्थभेदवत् ।
यः पुनर्भेदः सोऽसत्येव भेदे भेवाभिमानः तस्याभिन्नस्य क्रमाभिव्यक्तेः एकद्रव्यस्व5 तत्त्वरूपादिवत् ।
इति द्वादशारान्तरम्।
भेदवदिति द्रव्यार्थनयेषु षट्सु विध्यादिभेदेष्वाद्येषु यथा भावितं प्राक् यथालोकग्राहमेव वस्तु इत्यादिषु स एवाशेषो ग्रन्थोऽत्रावतारयितव्यः ।
य पुनर्भेदो घटः पट इत्यादिः सोऽसत्येव भेदे भेदाभिमानः, कस्मात् ? तस्याभिन्नस्य 10 वस्तुनः क्रमाभिव्यक्तः, क्रमेण हि शक्तिमतः शक्तिमात्रा अभिव्यज्यमाना भेदा इवाभासन्ते पुरुषग्रहणशक्त्यपेक्षया, न तु परमार्थतो भेदोऽस्ति । किमिव ? एकद्रव्यस्वतत्त्वरूपादिवत्, यथैकमेव घटाख्यं वस्तु चक्षुरादिग्रहणापदेशविशिष्टं रूपादिव्यपदेशभाग भवति यथा चक्षुषा गृह्यमाणं रूपम् जिह्वया रसः घ्राणेन गन्धः श्रोत्रेण शब्दः त्वचा स्पर्श इति तथा सर्वस्याभिन्नस्यैकस्यैव घट-पटादिभेदाभाव (स) नमभिमानमात्रमेवेति । एवं तावच्छून्यवादः पुरुषादिद्रव्यार्थवादेन 'निवर्तितः ।
इति द्वादशारान्तरं समाप्तम् ॥
. १ प० ११ पं० ३॥ २ इत्यादि भा० ॥ ३ पुरुषाग्रहण प्र० ॥ ४ भेदाभासनं भेदानामवभासनमित्यर्थो भाति ।। ५ निर्वतित इति द्वा° य० । निवर्तत इति द्वा भा० ॥ ६ समाप्तः प्र०॥
Jain Education International
For Private & Personal Use Only
wwww.jainelibrary.org