SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ॐ अ सद्गुरुभ्यो नमः अथ नयचक्रतुम्बम् एतदपि नैवैकान्तेन युक्तमिति प्रक्रान्तमेव । ततश्च विधिविधिनयादारभ्य विधिविध्यन्तरानुक्रमेण यावद् द्रव्यक्रियोभयनयः तावद् द्रव्यार्थांशावधृतेः ततः परं पर्यायार्थभेदानामुत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या यावच्छ्रन्यवादस्यापि एकान्तायुक्तत्वमधुना प्रक्रान्तम् । तेषामुपरि 'यथा लोकपरिग्रहमेव वस्तु' इति विधिः । तद्वयावर्तितसामान्य - 5 विशेषोद्धारार्थं विधिनियमविधिः । तन्निवर्तनार्थमुभयोभयनयः यावदयमवधिः । अतः परं तुम्बं नयचक्रस्य वर्तिष्यते । 'तदपि किं द्रव्यार्थीकान्तमतं सत्यं किमसत्यम्' इत्यस्मिन् -सन्देहेऽभिधीयते-- एतदपि नैवैकान्तेन युक्तमिति प्रक्रान्तमेव, कथमित्यत आह-- ततश्चेत्यादि, ५६२-१ ततश्च सर्वसंग्रहात्मकाद् विधेर्विधिनयारादारभ्य उत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या तेषु तेष्वरान्तरेषु विचारितमेव 'किं पुरुष एवावस्था अवस्था एव पुरुषः' इत्यादिविकल्पपर्यनुयोगोपक्रमेणेति तदनु- 10 स्मारयति - विधिविध्यन्तरानुक्रमेण विधिविधेर्भेदानां पुरुष-नियति-काल-स्वभाव-भावानां पूर्वपूर्वदूषणेनोतरोत्तरव्यवस्थानम्, ततः परं विध्युभयादीनामनुक्रमस्य परिपाटयाः क्रमेण विधिना यावत् कोऽवधिर्द्रव्यार्थद्वेषणमिति चेत्, उच्यते-- यावद् द्रव्य - क्रियोभयनयः उक्तस्तावद् द्रव्यार्थांशावधृतेः ततः परं पर्यायार्थभेदात् तेषामपि पर्यायार्थभेदानामुत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या यावच्छून्यवादः, शून्यवादस्यापि एकान्तायुक्तत्वमधुना विधिविधिनयमते प्रक्रान्तम् । तदेकान्तायुक्तत्वँख्यापना तु एकान्तवादानां परस्परसंयुक्तत्वमापाद्य प्रत्येकशो द्विशो यावद् द्वाद[श]शः सप्रभेदस्तेषामुपरि विधिनयः प्रथमोक्तो द्रष्टव्यः, तत्स्मारणं यथालोकपरिग्रहमेव वस्त्विति विधिरिति, तदुत्थानादिग्रन्थग्रहणात् समस्तारसूचनम् । तद्वयावर्तितेत्यादि, तेन विधिनयेन व्यावर्तितयोः सविकल्पयोः सामान्यविशेषयोरुद्वारार्थं विधिनियमविधिः, ततस्तन्निवर्तनार्थमुभयोर्भयनय इत्ययमपि क्रमो यावत् पुनरयमेवधिरिति । १ कान्ते युक्त० ॥ २ दृश्यतां पृ० २४६ ।। ३ अवस्था नास्ति य० ॥ ४ °तरेतेरव्य य० । 'त्तरेत्तरेत्तरव्य' भा० ॥ ५ यावृक्षोवधि प्र० ॥ ६ 'दूषणमेति भा० । दूषणे सति य० ॥ ७ युक्तस्य ख्यापना भा० । 'युक्तत्वस्थापना य० ।। ८ द्वादशः सप्र भा० । द्वादशारशः सप्र य० । ९ विधि भा० ॥ ११ मविधि य० ॥ नास्ति य० ॥ १० भय इत्यमपि Jain Education International For Private & Personal Use Only 15 ५६२-२ 20 www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy