________________
न्यायागमानुसारिणीवृत्त्य लङ्कृतं
[ नयचक्रतुम्बे
यथा चानेन शून्यवादे पूर्वपक्षत्वसम्बन्धस्तथा षड्विधेन द्रव्यार्थेन । यथा च तैः सम्बन्धः शून्यवादस्य तथा विध्यादीनां द्वादशानामपि यथारुचितमभिसम्बन्धः, शून्यवाद - स्यापि येन केनचिदन्तरितस्य सम्बन्धोपपत्तेः । एवमेव चास्य नयचक्रमित्यन्वर्थसंज्ञा स्यात् । एवं तावदस्मादन्त्यात् सर्वनयोत्थानं न विरुध्यते । यथा चास्मादेवं सर्वेभ्योऽपि ।
८७५]
5 यथा चानेनेत्यादि, यथा चानेन विधिविधिनयेनैकान्तायुक्तत्ववादिना शून्यवादे पूर्वपक्षत्व -- सम्बन्धस्तथैकैकेन षड्विधेन द्रव्यार्थेन । यथा च तैरित्यादि, यथा च द्रव्यार्थभेदैः प्रत्येकं विधि-विधिनयेनैव योग: शून्यवादस्य तथा शून्यवादे प्रतिषिद्धेऽपि तदनन्तरमेव विध्यादीनां द्वादशानामप्यराणां यथारुचितमभिसम्बन्धः शून्यवादस्यापि येन केनचिदेकादशानामन्यतमेनान्तरितस्य सम्बन्धोपपत्तेः, प्रत्येकं जगत्स्वभावप्रतिपादनसमर्थानां व्यापिनां येन केनचिदिति वचनात् दि 10 विध्यनयादीनां समनन्तरेणैकाद्यन्तरितेन उत्तरेषां वा पूर्वेण समनन्तरातीतेनैकाद्यन्तरितातीतेनेत्य-विरुद्धः “क्रमेणोत्क्रमेणोत्क्रमक्रमाभ्यां वा सम्बन्धोऽस्तीत्यर्थः, तस्माच्च सर्वभावव्यावर्तनानन्तरसम्बन्धा[द्] द्वादशानामन्यतमादरादनन्तरस्यानन्तरस्योत्थानं तत्तदरदूषणार्थं क्रमः । तेन क्रमेण सम्बन्धेन सर्वकुमतपक्षाणां मिथ्यादृष्टिप्रणीतशास्त्राणां व्यवस्थायाश्चेष्टनार्थं सर्वमिदं नयचं ऋशास्त्रं क्रम ५६३-१ सर्वैक्यभावापादितस्याद्वादानपेक्षसर्वनयमिथ्यादृष्टित्वात् तत्र तत्र च तत्तद्दविहित्यस्य प्रतिपादितत्वात् 15 परस्परैविहि (ह? ) तपक्षाणां क्रमेणोक्तार्थानुसारेण सर्वेषामन्योन्यदूषणत्वात् ।
20
एवमेवेत्यादि। एवं चैं कृत्वास्य शास्त्रस्य नैयादीनां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा स्यात्, नयानां स्वपरमतसाधन - दूषणसमर्थानां समूहत्वात् । नयन्तेऽर्थान् प्रापयन्ति नयन्ति गमयन्तीति नयाः, वस्तुनोऽनेकात्मकस्यान्यत मैकात्मकैकान्तपरिग्रहात्मका नया इति तेषां चक्रम् । एवं तावेदैस्मादन्त्या च्छून्य वादनयात् सर्वनयोत्थानं न विरुध्यते ।
यथा चास्मादेवं सर्वेभ्योऽपि । यथैतस्मान्नयादुत्थानं सर्वनयानामन्त्यादविरुद्धं तथा सर्वेभ्योऽपि, सर्वस्मादेकैकस्मादपि नयात् सर्वनयानामुत्थानमविरुद्धमेव, सर्वस्य सर्वेण सह विरोधित्वे सति विवादसद्भावात् ।
१ 'वादपूर्व' य० ॥ २°स्तथैनैकैकेन यद्विधेन द्रव्यार्थन यथा व ते भा० । स्तथैनैकैकेन वद्विधेन द्रव्यार्थ यथा चैतै य० ॥ ३ 'मपि संबंध य० ॥ ४ यदि ध्यरनयानां सम भा० ॥ ५ क्रमेणोत्क्रमेणोत्क्रमाभ्या भा० । क्रमेणोत्क्रमत्क्रमाभ्यां य० । ६ भादयावर्तना' भा० ॥ ७ 'रस्योत्थानं य० ॥ ८ 'याश्वेष्टेनार्थं य० ॥ ९ चक्रं य० ॥ १० हित्यस्य भा० । 'हितास्य य० ॥ ११ ° रवि[र]हित (?) m १२ चक्रत्वास्य प्र० । १३ नयादीच भा० । 'नय नां चक्रम्' इति पाठोऽत्र समीचीनो भाति ।। १४ नयन्ति नास्ति भा० ॥ १५ ' दस्माकं दन्त्या भा० ॥ १६ यथैच तस्मान्नया प्र० । अत्र यथा चैतस्मान्नया' इत्यपि पाठः संभवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org