________________
सर्वनयोपनिबन्धनं जिनवचनम् ] द्वादशारं नयचक्रम्
[८७६ एषामशेषशासननयाराणां भगवदर्हद्वचनमुपनिबन्धनम्। तेषां द्रव्यार्थ-पर्यायार्थनयौ द्वौ मूलभेदौ, तत्प्रभेदाः संग्रहादयः। तेषामुपग्राहकं जिनवचनं तद्यथा-- .
इमा णं भंते ! रयणप्पभा पुढवी कि सासता असासता? गोतमा! सिता सासता, सिता असासता । से केणठेणं भंते ! एवं वुच्चति-सिता सासता, सिता असासत त्ति ? गोतमा ! दन्वटुताए सासता, वण्णपज्जवेहि गंधपज्जवेहि रसपज्जवेहिं फासपज्जवेहि संठाणपज्जवेहि असासता। ।
[जीवाजीवाभि० ३.११७८]
एषामित्यादि । एषामशेषनयानां किं निबन्धनमि[ति] चेदुच्यते--एषामशेषशासना(ननया)राणाम, अशेषशासनान्येव जैमिनीयोपनिषदादीनि नयाः अरसंस्थानीयानि स्याद्वादतुम्बस्य नयचक्रस्य, तेषामशेषशासननयाराणां च भगवदर्हद्वचनमुपनिबन्धनम् । जिनशासनमहासमुद्रस्यैव तरङ्गा एते । तथा च तत्र तत्र भावितम् । यथाचार्यसिद्धसेनश्चाह
भई मिच्छादसणसमूहमइयस्स अमतसादस्स । जिणवयणस्स भगवतो संविग्गमु (सु) हाभिगम्मस्स ॥ [सम्मति० ३।६९] इति ।
५६३-२ तेषां चाशेषशासनाराणां द्रव्यार्थ-पर्यायार्थनयौ द्वौ समासतो मूलभेदौ, तत्प्रभेदाः संग्रहादयः, तित्थकरवयणसंगहविसेसपत्थारमूलवाकरणी।
दम्वढिओ य पज्जवणयो य सेसा विकप्पा सि ॥ [सम्मति० १॥३] इत्यादिव्याख्यानात् । 15
तत्र द्रव्यार्थस्य विकल्पाः षट् संक्षेपेणात्रोक्ताः, पर्यायार्थस्य षट् । तेषामुपग्राहक जिनवचनं तद्यथा--'इमा णं भंते ! रयणप्पभा पुढवी कि सोसता असासता' इति पृष्टे व्याकरणं 'सिया सासता, सिता अंसासता' इति समग्रादेशात् । पुनः 'से केणठेणं भंते ! "एतं एवं वुच्चतिसिता सासता, सिता अंसासता' इति व्याख्यापनार्थः प्रश्नः। तस्य विकलादेशाद् व्याकरणम्, रत्नप्रभायाः स्वतत्त्वमुभयात्मकं विभागेन विदधाति, तद्यथा-'दव्वद्वताए सासता, वण्णपज्जवेहिं 20 गंधपज्जवेहिं रस"ज्जवेहि फासपज्जवेहि "संठाणपज्जवेहि असासत' ति।
तदनुयातवृत्तिसाधनं नाभिक्रिया, तस्या रत्नप्रभायाः शाश्वताशाश्वतधर्मस्वतत्त्वायाः कारणाभ्यां द्रव्यार्थपर्याया[A]भ्यां प्रत्येकषड्विकल्पाभ्यां कारितं स्वतत्त्वमनेकान्तात्मकं विदधतो
१ (°सेन आह?) ॥ २ गमस्स प्र०॥ ३ सि भा०॥ ४ णोत्रोक्ताः प्र०॥ ५ सासतामसासता प्र०। दृश्यतां पृ० ३, ४५० ।। ६ असासतामिति प्र०॥ ७ एवं एवं भा०। अत्रेदमवधेयम्-प० ३, ४५० मध्ये नयचके जीवाजीवाभिगमसूत्रत उद्धृते पाठे जीवाजीवाभिगमसूत्रे च 'एतं' इति पदं नोपलभ्यते। अतोऽत्र 'भंते एवं वच्चति' इति पाठ एव समीचीनो भाति ।। ८ असासतामिति य० । असासतातिति भा०॥ ९ व्याख्यानार्थः य०॥ १०°त्वनुभया प्र०॥ ११ पज्जतेवेहि भा० ॥ १२ दृश्यतां पृ० ३ पं० १६, पृ० ४५० ५० १०, पृ० ४५१ टि० १॥१३ तदनुपातवृत्तसाधन भा०। तदनुपातवृत्तेसासधन य०॥ १४ द्रव्येक प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org