________________
८७१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशारान्तरे सामग्रीदर्शनादपि सर्वास्तित्वसिद्धिः । तथा च तदेवैकं सर्वात्मकम्। सामग्री अशेषभावानां भावान्तरं भावान्तरं प्रति वृत्तिः । यथा पृथिव्यादिसामग्याः कर्पास-तद्रूपाद्यणुपक्ष्म-तन्तु-पटाविकं प्रति । एतत्संवादेन घटपटादीति दृश्यते संज्ञा यतः प्रवर्तते चेतनाचेतनं
जगत् । 5 यदि सामग्र्यशेषता सर्वस्य सर्वत्र वृत्तेस्तिलेषु तैलवत् सिकतास्वपि तैलं स्यात् ।
नित्य इत्यादि स एव पर्यनुयोगः, विशेषस्तु अत्र अन्तप्रत्यक्षप्रमाणीकरणाच्च आरम्भ-क्रियमाणप्रत्यक्षद्वयपरित्यागः, तयोश्च दृष्टव्यभिचारमितरत्रकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यते ? इति पुनरपि तद्धानिरिति वाच्य इत्यतिदेशफलम्-एवमनुत्पादात् सर्वभेदैक्यसिद्धिः।
किञ्च, सामग्रीदर्शनादपि पुरुष-नियति-काल-स्वभाव-भावाद्यन्यतमकारणात्मकस्यावस्थादि10 भेदसामग्र्यामेवैवं दर्शनादपि हेतोः सर्वास्तित्वसिद्धिः। तथा च तेन प्रकारेणोत्पत्ति-विनाशा
भावादिप्रोक्तकारणतया तदेवैकं सर्वात्मकं स्वं परमुभयं चेत्येतमर्थं सम्पादयति सामग्री स्वावयवात्म
कत्वात् तस्याः । सा च सामग्री दृश्यते प्रत्यक्षतः । किंलक्षणा सामग्री ? इति चेत्, उच्यते-सामग्री ५६०-२ अशेषभावानां भावान्तरं भावान्तरं प्रति वृत्तिः एकैकस्मिन्नभिन्नैकात्मकवस्तुभेदमात्रे भावे
भेदान्तरस्यैकैकस्य वृत्तिर्या सा 'सामग्री' इत्युच्यते । तद्दर्शयति-यथा पृथिव्यादिसामग्र्या इत्यादि, 15 पृथिव्युदक-वह्नि-पवन-गगना-ऽऽत्मादिसर्वसमूहात्मक: कासः तद्रूपादयः, तत्समूहोऽणुः, अणुसमूहाः
पक्ष्माणि, [त]त्र्समूहास्तन्तवः, तत्समूहः पट इति तं तमर्थं प्रति सामग्री पृथिव्यप्युदकादि-तद्रूपादि-पटादिसमूहात्मिका वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ता-ऽव्यक्तशक्त्यपेक्षत्वात् सर्वसर्वात्मकत्वात् सामग्र्यामेवं दर्शनम्।
एतत्संवादेनेत्यादि । एतेन सर्वसर्वात्मकैकवस्तुभेदसामग्रीदर्शनत्वेन संवादि रूपादि पृथिव्यादि 20 परस्परसामग्री घट-पटादीति दृश्यते "संज्ञा यते (तः) प्रवर्तते चेतनाचेतनं जगत् यथा विधिविधिनैय
भङ्गे प्राग् व्याख्यातम् । तस्मात् संसिद्धयादिभ्योऽपि हेतुभ्यश्चेतना[चेतनात्मकैकवस्तुविजृम्भितमात्रमिदं सिध्यतीति।
अत्राह-यदि सामग्र्यशेषतेत्यादि। यद्यशेषं स्वभेदसामग्रीमानं सर्वस्य सर्वत्र वृत्तेर्यथा तिलेषु तैलं सत् तथा सिकतास्वपि तैलं स्यात् तत्राभाववत् तिलेष्वप्यभाव एव स्यात्, न तु भवति । 25 तस्मान्नाशेषं सामग्रीमात्रमिति ।
१ पृ० ८४८ पं० १॥ २ (स्वावस्था ? )॥ ३ सर्वात्यक प्र० ॥ ४ चेत्यतमर्थ य० ॥ ५ भावानांतरं २ प्रति वृत्ति भा०। भावानंतरं २ प्रति वृत्ति य० ॥ ६ भावो प्र०॥ ७ ग्यादि पृथि य० ॥ ८ समूहा य० ॥ ९ (मेव ? )। पृ० ८७१ पं० १०॥ १० एतसं य०॥ ११ पृ० ८४८ पं० १॥ १२ चेतनं जगत् य०॥ १३ पृ० १७५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org