________________
सर्वास्तित्वसाधनम्]
द्वादशारं नयचक्रम्
८७०
भावात् तथाजन्यभेदाभावः। आदिप्रत्यक्षप्रमाणीकरणाच्च क्रिया निष्ठाप्रत्यक्षद्वयपरित्यागः । तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिः।
अथादिनित्यतायां दोषानिवृत्तनित्यत्वमभ्युपगच्छसि, इत्थं हि निर्वृत्तनित्यतायां सर्वैक्यं नास्ति पृथग्विभिन्नस्वरूपत्वात् ।
नन्वेवमपि नारम्भो न क्रिया इति भेदाभाव एव । अथादिरनित्योऽभ्युपगम्यते । ततः स किं जातोऽजातः ? यदि जातस्तस्यैवानुत्पादः, अजातत्वात्, निर्वृत्तघटवदित्यादिः, त(त्व) दुक्तवदेवेदं न युज्यते।
.. अन्तोक्तमपि च [ त्वदुक्तदोषाविमोक्षान्न युज्यते पूर्ववदित्यन्तेऽप्युत्पादाभावः] एवमनुत्पादात् सर्वभेदैक्यसिद्धिः ।
किञ्चान्यत्, आदिप्रत्यक्षेत्यादि। आदिः प्रत्यक्षत एव भेदहेतुर्दश्यत इति विशेष्य आदि (दे)- 10 रेव प्रत्यक्षं प्रमाणीकृतं न क्रिया-निष्ठे, तयोः प्रत्यक्षयोरपि परित्यागश्च कृतः, स च प्रत्यक्षविरोधादयुक्तः । तयोश्चेत्यादि, तयोश्च प्रत्यक्षयोः क्रिया-निष्ठयोरप्रमाणीकरणे प्रत्यक्षमप्यप्रमाणमिति दृष्टो व्यभिचारः, तदर्शनादादेरपि प्रत्यक्षस्य तद्वदेवाप्रामाण्यात् पुनरप्यादेः प्रत्यक्षस्य त्याग इति सर्वथा त्वयैव प्रत्यक्षमप्रमाणीकृतम् । एवं तावदादेनित्यतायां दोषः ।
अथादिनित्यतायामित्यादि। एतद्दोषभयादादिनित्यत्वपक्षं त्यक्त्वा निवृत्तनित्यत्वमभ्युप- 15 गच्छसि दोषाभावं च यस्मान परैकतेति, इत्थं हि निर्वृत्तनित्यतायां त्वयोक्तं सर्वैक्यम्, तच्च नास्ति 'पृथग्विभिन्नस्वरूपत्वादिति।
अत्र ब्रूमः-नन्वेवमपीत्यादि। यदि नित्यनिष्टितमेव वस्तु [त]तो नारम्भोऽस्ति न क्रिया इत्यभ्युपगतत्वात् कुतो भेद आरम्भः क्रिया लभ्यते ? इति भेदाभाव एवास्मदिष्टः प्रसक्तः । एवं तावदादिनित्यतायां दोषः ।
20 अथेत्यादि । एतद्दोषभयादादेरनित्यताभ्युपगम्यते चेत् त्वया तत इत्थं पर्यनुयोज्योऽसिस किमादिर्जातोज्जातः ? इत्यादि त्वत्पर्यनुयोगवदेव विष्वपि विकल्पेषु त्वदुक्तंदोषवद्दोषा इति दिशं दर्शयति-यदि जातः तस्यैवानुत्पादः, अजातत्वात्, निर्वृत्तघटवदित्यादिरिति प्रथमविकल्पमुक्त्वा ५६०-१ शेषं ग्रन्थमतिदिशति-त (त्व) दुक्तवदेवेदं न युज्यते इत्यजातजाताजातविकल्पयोरपि त्वदुक्ता एव । दोषा इत्युत्पादाभावः।
___अन्तोक्तमपि चेत्यादि, अन्तेऽप्युत्पादाभावो विनष्टा-विनष्ट-विनष्टाविनष्टविकल्पेषु त्वदुक्तदोषाविमोक्षात् यावदेथोच्येत-अन्तः प्रत्यक्ष एव भेदहेतुर्दश्यत इति अस्मिन् पूर्वपक्षे स किं नित्योऽ
१ पृ० ८६९ पं० ४, पृ० ८७०पं० २७ ॥ २ प्रत्यक्षोरपि य० ॥३क्षप्रमा य०॥ ४१० ८४५ पं० ३॥ ५ गच्छति भा० ॥ ६ पृथग्विन्न भा० ॥ ७ वस्तु वो नारम्भो भा० ॥ ८ पृ० ८४५५०५॥ ९ दोवद्दोषा य०॥ १० त्यादेरिति य० ॥ ११ पृ० ८४६ पं० ४॥ १२ पृ० ८६९५० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org