Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८६३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वादशारान्तरे
संयुक्तेरपि च स्वपरोभयभावः । इह भाव एव भावो नाभावः । स च तदतदतीतानागतवर्तमानेषु अविशिष्ट एक एव [ तद्भावे भावात् ] तदभावेऽभावात् घट- पांशु- कर्पासतन्तु पटवत् । इति सर्वसर्वैक्यम् । तत्र ' अस्त्येको घट:' इति त्रयाणामेकत्वे यत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानर्थान्तरत्वं 5 तत्र तस्य निष्कलमेव स्वतत्त्वं भवति एकस्मिन्नेकत्वस्वतत्त्ववत् । अस्तित्वस्वतत्त्वं च सर्व
इष्टह्रस्व-दीर्घस्वात्मवत्, इष्टस्य ' ह्रस्वस्य स्वात्मा तेन स्वात्मना । ह्रस्वत्वेनाप्रतिद्वन्द्वित्वाद् ह्रस्वे भवत्येवं ह्रस्वे दीर्घत्वं भवति दीर्घेऽपि ह्रस्वत्वं ह्रस्वात्मवदिति विरोधदोषोऽपि परिहृत इत्थम् ।
योऽपि तदनन्तरमितरेतरयोगदोषोद्भावनाय विचारः कृतस्तस्यानवतार एव, स्व-परोभयेभ्यो भवने सर्वभेदानां विरोधाभावप्रतिपादनादेव तद्गतदोषपरिहारस्यापि कृतत्वात् । अत आह— 10 एवमेव चेतरेतरयोगविचारानवतार इति गतार्थम् । एवं तावत् स्व-परोभयभाव: 'संसिद्धः सिद्धः । संयुक्तेरपि च स्व-परोभयभावः । तद् भावयति - इह भाव एव भावो नाभाव इति 'सर्वभेदशक्ति भवत्येव भवति वस्तु न न भवति' इत्युक्तत्वात् । स चेत्यादि, स च भावः तदतदतीतानागत- वर्तमानेषु तस्मिन्नतस्मिश्च वृत्ते वर्तमाने वैत्र्त्स्यति च देश कालविशिष्टाभिमतेषु ५५-१ अविशिष्ट एक एव । कस्मात् ? [तद्भावे भावात्] तदभावे [s]भावात् तेषु तेषु स्वभेदेषु 15 भवत्स्वेव भवति ‘अँभवत्सु [न] भवति" अतस्तद्भावे भावात् तदभावे चाभावादविशिष्ट एव तेभ्य एकः । किमिव ? घंट-पांशु- कर्पास तन्तु पटवत्, यथा घटः कपाल - शकलादिक्रमेण पांशुभूतः, पांशुर्मृत, मृदि कैंपसबीजसम्बन्धात् कर्पासीभूतायां तन्तवः, तन्तुभ्यः पट इति क्रमेण घट-पटैकत्ववत् सर्वसर्वेक्यमिति स्थितेऽस्मिन्न्याये तत्र 'अस्त्येको घटः' इति त्रयाणामेकत्वमेव सति चैकत्वे यैत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम्, कस्मात् ? अनर्थान्तरत्वात् । 20 अस्य हेतोः साध्येनान्वितत्वं प्रदर्श्यते - यत्र यस्येत्यादि यावत् स्वतत्त्वं भवतीति गतार्थम् । किमिव ? एकस्मिन्नेकत्वस्वतत्त्ववत्, यथैकस्मिन् वस्तुनि एकत्वस्वतत्वं ततोऽनर्थान्तरत्वान्निष्कलमेव भवति तथैकत्वेऽस्तित्वमपि निष्कलमेव भवितुमर्हतीति । अस्तित्वस्वतत्त्वं च सर्वभावा इति परेणानिष्टमापादयितुमुक्तम्, मम तु सर्वशक्ति एकं वस्त्विच्छत इष्टमेवेति न दोषः ।
4
१ ह्रस्वस्वात्मा य० । 'इष्टस्य ह्रस्वस्य स्वात्मा ह्रस्वे भवति' इत्यन्वयः ।। २ ( ह्रस्वस्वात्मवत् ? ) ।। ३ पृ० ८३१ पं० २२ ।। ४ संसिद्धिः प्र० ।। ५ वत्स्ते प्र० ।। ६* * एतदन्तर्गत पाठो य० प्रतौ नास्ति ॥ ७ वाभावा य० । 'दाभावा' भा० ॥ ८ घटपांसु भा० । घटपटांशु य० ॥ ९ पांसु भा० ॥। १० कार्पास य० ।। ११ पृ० ८३५ पं० ११ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252