Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 172
________________ ८६१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशारान्तरे ____तस्मात् सर्वमिदं सर्वस्वभावमशून्यमिति प्रतिपत्तव्यम् अशून्यगृहवत् प्रवेष्टस्थातृनिर्गन्तुकल्पोत्पादस्थितिविनाशसहितमेव सर्वमेकमनेकात्मकं व्यवहारप्रव्यक्तापरिकल्पिततदतदाकारं स्वतः परत उभयतश्चास्त्येव। अथ कथं स्वपरोभयभावः ? संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यः । 5 संसिद्धिस्तावत् तदात्मभेदैकोभावेन सद्भावः। दीर्घत्वं दीर्घऽस्त्येव अपरायत्तत्वात् । यदि त्वस्वविषयमेतत् स्यात्, नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, न च मध्यमा शक्रयष्टिदीर्घतायाम् । एवं ह्रस्वत्वमपि । ५५३-१ तस्मात् सर्वमिदमित्यादि । सर्वशून्यवादे साधन-दूषणासम्भवात् प्रतिपाद्य-प्रतिपादकव्यवहारा भावात् विज्ञानमात्रपक्षस्यापि सर्वेकज्ञपुरुषमात्रत्वाभ्युपगमापत्तेः स्वप्न-वन्ध्यापुत्रादिदृष्टान्तानां च 10 सर्वसर्वात्मकत्वे सति असिद्धेः इदं 'सर्वस्वभावमशून्यम्' इति प्रतिपत्तव्यम् त्वदुक्तार्थविपर्ययेण अंशून्य गृहवत् प्रवेष्टव-स्थातृ-निर्गन्तृकल्पैरुत्पाद-स्थिति-विनाशैः सहितमेव सर्वमेकमनेकात्मकमगुलिवक्रप्रगुणत्वादिवत् विचित्र वर्णकृकलौसवद्वा व्यवहारेण "प्रव्यज्यमानैः सह-क्रमभाविभिरपरिकल्पितैरेव सत्यैर्भेदैनित्यादिभिस्तच्चातच्च वस्तु तदतदाकारविपरिणामदर्शनाद् व्यवहारप्रव्यक्तापरिकल्पित तदतदाकारं स्वतः परत उभयतश्चास्त्येव, न नास्ति इति ग्राह्यमुक्तन्यायात् । 15 अत्राह-अथ कथं स्व-परोभयभावः ? इति । अत्र ब्रूमः--संसिद्धि-संयुक्त्यनुत्पादसामग्रीदर्शन-सदादर्शनेभ्यो हेतुभ्यः । संसिद्धिस्तावत् 'सम्' इत्येकीभावे, सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभूताः सिध्यन्तीत्यत आह--संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, संसिद्धिः सहभावः सहनिर्वृत्तियुगपवृत्तिरित्यनर्थान्तरम् । तद् भावयति-दीर्घत्वं दीर्धेऽस्त्येव, अपरायत्तत्वात् स्वायत्तत्वादेवेत्यर्थः । 20 तद्धि दीर्घत्वं स्वायत्तमेवानामिकायाः। यदि स्व (त्व)स्वविषयमेतत् कनिष्ठिकाह्रस्वत्वापेक्ष५३-२ मनामिकादीर्घत्वं त्वन्मतेन स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, मध्यमां दीर्घा दृष्ट्वा स्वगतेन ह्रस्वत्वपरिणामेन ह्रस्वा सती दीर्घा पुनर्न स्यादेवार्थान्तरापेक्षयापि स्वात्मन्यविद्यमानदीर्घत्वात् खपुष्पवत् मध्यमायत्तह्रस्वत्वात्, भवति तु दीर्घापि स्वायत्तकनिष्ठिकापेक्षस्वगतदीर्घत्वपरिणामात् । तस्मात् स्वायत्तं दीर्घत्वमनामिकायाः। तथा न च मध्यमा शक्रयष्टि25 दीर्घतायां शक्रयष्टयपेक्षमध्यमाह्रस्वपरिणामात् स्वगताद् ह्रस्वेति न चानामिकापेक्षात् स्वदीर्घत्व १ दृश्यतां पृ० ८२७ पं० १८॥ २ लाश प्र० ॥ ३ * * एतदङ्कितः प्रव्यज्य' इत्यत आरभ्य व्यवहार इत्यन्तः पाठो य० प्रती नास्ति ।। ४ पृ०८२७ पं०६॥ ५ भावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकी प्र० ।। ६ यदि ह्यस्वविषय इत्यपि पाठोऽत्र भवेत् । दृश्यतां पृ० ८६२ पं० ७-८॥ ७ णामेनाह्रस्वा प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252