Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 171
________________ सर्वस्वभावत्वादिवर्णनम् ] द्वादशारं नयचक्रम् ८६० तनं च । तत्र चेतनस्य अनाद्यनन्तभवभावित्वम्, कर्मपरिवर्तान्यथात्वात्, इतरद्रव्यवत् । अनन्तरभववन्ध्या .......... प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि तद्भावानतिरिक्तत्वात् तद्वद् बालकुमारवद्वा।। अचेतनस्यापि तद्धावानतिरिक्तत्वादनाद्यनन्तविपरिवर्तान्यथात्वाद विरुद्धं वन्ध्यापुत्रत्वम् तदन्योन्यानुगतिमन्तरेण तदभावात् शरीरारम्भवत् । तत्र चेतनस्येत्यादि, इदं हि चेतनमात्मद्रव्यमनाद्यनन्तभवेषु भवितुमुत्सहते, कुतः ? कर्मपरिवर्तान्यथात्वात, अनाद्यनन्तकर्मबन्धसन्तानस्य विपरिवर्तास्तिर्यङ्-नर-नरका-ऽमरभवाः, ते चानाद्य[न]न्ता भवनशीला एव स्वजात्यपरित्यागेनाऽन्यथाऽन्यथाभवन्तः, इतरद्रव्यवत पुद्गलद्रव्यवत्, यथा पुद्गलद्रव्यं रूप-रस-गन्ध-स्पर्शलक्षणमाचैतन्यापरित्यागेन भूम्युदक-वह्नि-पवन-वनस्पति-त्रस-शरीरिशरीर-शीतोष्ण-तमश्छाया-ऽऽतपोद्योतादिपरिवर्तमन्यथा तथा चानुभवति तथा चेतनात्मकर्मपरिवर्तानु- 10 भाविमनुष्यस्त्रीवन्ध्यावा (त्वा)भ्यां प्रच्युत्य जन्मान्तरे मनुष्यत्वोत्पत्तौ स्त्रीत्वोत्पत्तौ वा पुत्रवत्त्वे ५५२-२ *द्रव्यार्थाभेदात् सैव वन्ध्या पुत्रवती जायत इत्यत्र वन्ध्यापुत्र इत्येनम) दण्डकेन दर्शयति-- अनन्तरभववन्ध्येत्यादिना यावत् प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि, कस्मात् ? तद्भावानतिरिक्तत्वात, तस्मात् पूर्वस्माद् भावादनतिरिक्तः सकर्मा चेतनः, तद्वत् पूर्ववन्ध्यात्ववत् पुत्रवत्त्वपर्यायसम्भूतावपि बालकुमारवद्वेति दृष्टान्तान्तरं लोकसिद्धम्, यथा 'बालः कुमारो युवा' इत्यादि-15 पर्यायेष्वपि स एव भवति तथा वन्ध्या-पुत्रवत्त्वावस्थयोरेक एव जीव इति। एवं तावच्चेतनस्यानाद्यनन्तभवभावित्वात् तद्भावानतिरिक्तत्वाच्च तत्त्वे वन्ध्यापुत्रास्तित्वमुक्तम् । __ अचेतनस्यापि ब्रूमः । तद्यथा-वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां केश-नख-दन्त-मूत्रशकृत्-स्वेद-रस-रुधिर-मांसादीनां मृत्त्व-व्रीह्यादित्वसंम्भूतौ [?]वन्ध्यया स्त्रिया पुंसा वाऽऽहारितानां रक्त-शुक्रत्वादिभावेन चोपात्तानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वं तद्भावानतिरिक्तत्वादनाद्यनन्त- 20 विपरिवर्तान्यथात्वात्' इत्यादिना न्यायेनाविरुद्धं वन्ध्यापुत्रत्वम् । तत् साधयति-तदन्योन्यानुगतिमन्तरेण तदभावात्, यद् यदन्योन्यानुगतिमन्तरेण न भवति तत् तत् तस्यैव तदेव वा, शरीरारम्भवत, यथा शरीरं तेषां पुद्गलाना[मनाद्यनन्तभवभाविपरिवन्यिथात्वादन्योन्यानुगतिमन्तरेणाभावाच्च तान्येव तानि जीवपुद्गलद्रव्याणि तथा वन्ध्याया एव पुद्गलाः पुत्रपुद्गला इत्यंप्यविरुद्धं बन्ध्यापुत्रत्वम् । तस्मादस्ति वन्ध्यापुत्रः । १ यंङ्नरका य० ॥ २ भवंशीला भा० । भवशीला य० ॥ ३ °न्यथाभवन्त य० ॥ ४ पुद्गलस्य द्रव्यवत् प्र० ।। ५ मूर्त्याचे य० । 'मूर्ति आचैतन्यापरित्यागेन' इति पदच्छेदः । अचेतनस्य भाव आचैतन्यम् ।। ६ वन्ध्यावाभ्यां प्रत्युव्युत्य य० । वन्ध्यावाभ्यां प्रत्युद्युत भा० । (वन्ध्याभवाभ्यां प्रच्युत्य ? ) ॥ ७ द्रव्यार्थभेदात् प्र० ॥ ८°संभूतो वध्याया स्त्रिया पुंसा वा य० । संभूतौ वन्ध्याया पुंसा वा भा० ॥ ९ इत्यस्यविरुद्धं य० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252