Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 166
________________ उप्रह । सद्गुरुभ्यो नमः अथ दादशारान्तरम् । एतदपि पूर्ववदेवकान्तत्वादयुक्तम्, सम्भविविकल्पानुपपत्तेः। एवं ब्रुवत एवं विज्ञानवचसी निःस्वभावे। अथा मा भूदयं दोष इति सस्वभावे विज्ञान-वचसी अभ्युपगच्छसि, सर्व निःस्वभाव5 मित्यभ्युपगमविरोधः। बचसोऽपि सस्वभावत्वे न तर्हि सर्वं निःस्वभावमिति स्ववचनविरोधश्च दोषः। विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रत्येकवृत्तिमिथ्यादर्शनत्वापादनार्थं प्रवृत्तत्वादाह--एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, यथा क्षणिकमेव रूपादिसमुदायमेव [अ]वक्तव्यमेव सामान्य-विशेषका-ऽन्यत्वादीनी (ती? ) त्येकान्तवादानामयुक्तत्वमेकान्तत्वात्, युक्तत्वे वा जैनेन्द्रत्व10 मनेकान्तप्रतिष्ठगतित्वाद्वेत्युक्तं तथैतदपि 'सर्वं निःस्वभावम्' इति मतम् । कस्मात् ? सम्भविविकल्पानपपत्तेः, अस्मिन्नपि मते ये विकल्पाः सम्भवन्ति सङ्ग्रहेण 'विज्ञान-वचसो::स्वाभाव्यं स्वाभाव्यं वा' इत्यनयोरेव भेदा वक्ष्यमाणास्ते सर्वथा नोपपद्यन्ते, तदनुपपत्तेरस्यापि मतस्यायुक्तिः । अतो जैनकल्पितानेकान्तरूपत्वं वस्तुनः श्रेय इत्युपसंहारो भविष्यति। तद्यथा-एवं सर्वं निःस्वभावमिति ब्रुवतोऽतीतासिद्धयादियुक्तिप्रकारेण तव इति प्रत्युच्चारणं 15 प्रथमैवंशब्दात् । द्वितीयवंशब्दाद् विज्ञान-वचसोरपि त्वयोक्तयोः सर्वान्तःपातित्वादविशेष्य 'सर्व ५४९-१ निःस्वभावम्' इत्युक्तत्वाद् विज्ञानतत्त्वाच्चातिप्रसक्तं विज्ञान-वचसी निःस्वभावें' इत्येतद् वैच:, अनिष्टं च तद् विज्ञान-वचसोरप्रत्यायनप्रसङ्गात्। यदा हि विज्ञानमसत् तदा 'निःस्वभावमिदं सर्वम्' इत्यनिश्चितम् स्वयमनिश्चित्यास्मान् प्रतिपिपादयिषतस्ते पक्षादिसाधनवचनासत्त्वं च। तस्मात् परप्रत्यायनमयुक्तम् विज्ञानवचसोनिश्चितपक्षादित्वेनाभूतत्वात् उन्मत्तविज्ञान-प्रलापवदिति निः20 स्वभावविकल्पो ज्ञान-वचसोः सर्ववस्तुनःस्वाभाव्यं व्यावर्त यतीति दोषः । अथ मा भदित्यादि। एतद्दोषभयात् सस्वभावे विज्ञानवचसी त्वदीये चेदभ्युपगच्छसि 'सर्व निःस्वभावम्' इत्यस्याभ्युपगमस्य विरोधः, केन ? ज्ञान-वचन[स]स्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः १ दायमेव वक्तव्यमेव सामान्यविशेषकान्यत्वा भा० । दायमेव सामान्यविशेषैन्यत्वा य० । 'दाय एव वक्तव्यमेवावक्तव्यमेव' इत्यपि पाठोऽत्र सम्भाव्यते॥ २ विशेषन्यत्वा य० ॥ ३ वरोनिष्टं प्र० ।। ४ चेवभ्युप प्र० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252