Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 146
________________ १८३५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् द्वादशे नियमनियमारे तत्प्रत्ययं च नाधत्ते ततोऽघटे कथं घटत्वं तदबुद्धि च कुर्यात्, ततोऽन्यत्र वृत्तत्वात् पटाघटप्रत्ययवत् । अथोंच्येत अघटे घटतां नैव करोति तत्प्रत्ययमपि नादधाति । एतदपि न, अघटघटयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च। तद्यथा-सिद्धार्थक...:. ....। नैव घटः ....... .अघटत्ववत् । तत्प्रत्ययोऽपि न. . . . . . ] पटप्रत्ययवत् । .5 एवमघटत्वेऽपि । नाघटऽघटत्वम् [इत्युपक्रम्य घटशब्दस्थानेऽघटशब्दं कृत्वा यावद्यमवधिः] घटत्ववदनुसतव्यम्।। उभयोभयपक्षस्तूभयदोषापर्तेविप्रतिषेधाच्च । सिध्यत्यहेतुतश्चेत् खपुष्पाद्यपि स्यात्। एवं सर्वार्थेष्वपीत्यसिद्धिरेव। अथान्तरेणापीतरेतरयोगं स्वत एव सिध्यति घट इति चेत्, यद्यस्ति घट एक(10 स्ततस्तस्य सत्त्वैकत्वघटत्वानां युक्तिस्तेषामेकत्वेऽन्यत्वे वा न सम्भवति। यद (द्य) स्त्येको घट इति त्रयाणामेकत्वं ततो यत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेनैव स्वतत्त्वेन . एवमंघटत्वेऽपीत्यतिदेशोऽपि पूर्ववदेव। तस्य दिशं दर्शयति-नाघटेऽघटत्वमित्यादिना स्वयमेव ग्रन्थकारो यावत्कारेण यावद् घटत्ववदनुसर्तव्यमिति गतत्वान्न्यायस्य । - उभयोभयपक्षस्तूभयदोषापत्तेरिति समानपूर्वोत्तरपक्षव्याख्यः पूर्वातीतग्रन्थेन गतार्थः, 15'विप्रतिषेधाच्च' इत्यपि तथैव।। : स्यान्मतम्-स्व-परोभयवृत्तिहेतुमार्गेणासिद्धावपि अहेतुतः सिद्धिरिति। तच्च नाहेतुतिः] खपुष्पवदसिद्धेः, तत्रापि 'सिध्यत्यहेतुतश्चेत् खपुष्पाद्यपि स्यादिति पूर्ववदनिष्टापादनं नेयम् । ..एवं सर्वार्थेष्वपीति घटासिद्धया पट-रथ-कटादिनिरपेक्षसिद्धाभिमतसर्वार्थ (O) सिद्धिरित्यति देशः। इत्यसिद्धिरेवेति यथाप्रतिजमसिद्धिहेतुः सिद्ध इत्युपसंहारः । ५३६-२ -20 अनन्तरोक्तायुक्तिहेतुसिद्धिरधुनोच्यते, तत्सम्बन्धप्रदर्शनार्थं तावदाह-अथान्तरेणापीतरेतर 'योग विनापि वस्तूनामन्योन्यापेक्षया घटसिद्धेर्बीजमस्ति, कुतः ? स्वत एव सिध्यति स्वयमेव घट इति चेद् मन्यसे, अत्र ब्रूमः-यद्यस्ति घट इत्यादि, 'अस्ति' इत्युक्तत्वात् सन् घटः, स च एको द्रव्यमेकवचनोक्तत्वात्, ततस्तस्य घटस्य सत्त्वकत्वघटत्वानां किं युक्तिरयुक्तिः ? इति विचारे 25 तदविनाभावो युक्तिः, सा तु तेषां त्रयाणामेकत्वेऽन्यत्वे वा न सम्भवति । तत् कथम् ? इति यद (द्य) *स्त्येको घट इति त्रयाणामर्थानाम् अस्त्येक-घटशब्दवाच्यानामेकत्वं चेदिष्यते ततो यत्रैकत्वमि• १, २ पृ० ८३३ पं० २ ।। ३ (तथापि? ) ॥ ४ सिध्यत भा० । तुलना-पृ० ८३३ पं० ३ ।। ५ णापांतरे प्र० ॥ ६ (चेदस्त्येको?) ।। ७ तुलना-पृ० ५५५-१।। ८ तुलना-पृ० ८३६ पं० १५, पृ० ५५५-१॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252