Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 148
________________ ८३७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् भेदेन घट:, तथा च प्रत्यक्षादिविरोधाः । व्यक्ताव्यक्तद्रव्यगुणकर्मोत्पादस्थितिभङ्गसाधनदूषणादिषु ते चापाद्याः । एते चेनेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम् । तथा च सर्वे भावाः । यत्र घटस्या - वृत्तिस्तत्र सर्वभावानामवृत्तो (त्ति) रेव, घटानर्थान्तरत्वात् । अर्थान्तरतायां वा अस्तित्व5 सामान्यशून्यत्वाद् एकत्वविशेषशून्यत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् । [ द्वादशे नियमनियमारे रथः पट इत्यादिः, अपादिरित्यपग्नि वायु-भूम्यादि सर्वं सर्वात्मकमेकैकम् । अत आह- सर्वो भेदेन घट: प्रत्येकमित्यर्थः। भवतु सर्वं सर्वात्मकम्, दोषः कः ? इति चेत्, उच्यन्ते दोषाः - तथा च प्रत्यक्षादिविरोधाः । घटादीनां प्रत्यक्षमसर्वात्मकत्वात् प्रत्यक्षविरोधः, प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादि५३७ -२ विरोधा योज्याः । 10 व्यक्ताव्यक्तेत्यादि । ते च प्रत्यक्षादिविरोधा व्यक्तादिभावेषु । व्यक्तं शब्दादि पृथिव्यादि गवादि घटादि चैकैकर्मस्त्यैक (स्ति, एषा ) मस्त्येकशब्दानां त्रयाणामेकत्वमन्यत्वं वा स्यात् इत्यादिप्रक्रान्तन्यायेन 'अस्तित्वस्वतत्त्वमेकत्वं शब्दस्वतत्त्वं च' इत्यापाद्यं यावत् सर्वसर्वात्मकत्वम्, तदभ्युपगमे प्रत्यक्षादिविरोधाः । अव्यक्ते सत्त्व - रजस्तमसां च प्रत्येकमस्त्येकाव्यक्तानां त्रयाणामित्यादि, अस्त्येक-सत्त्वानामित्यादि, अस्त्येक [ रजसामित्यादि, अस्त्येकत ] मसामित्यादि, तथा पृथिव्यादीनामपि 15 प्रत्येकं गवादीनां च नेयम्, तथा द्रव्य-गुण-कर्मणामिति, तथोत्पाद-स्थिति-भङ्गानाम्, तथा साधनस्य तद्भेदानां प्रतिज्ञादीनाम्, दूषणस्य तद्भेदानां च स्ववचनविरोधाद्यै सिद्ध्यादि-साध्यधर्मवैकल्यादीनामपि प्रोक्तन्यायेन प्रत्यक्षादिविरोधा आपाद्या व्यापित्वादस्य न्यायस्य । एते चेन्नष्यन्ते घटो नास्तीति प्रतिपत्तव्यम्, अथैतान् प्रत्यक्षविरोधादिदोषान् नेच्छसि तदा 'घटो नास्ति' इत्येतत् प्रतिपद्यस्वेति स्वमतशून्यतापादनम् । तथा च सर्वे भावा इत्यतिदेशः । यथा घटस्यायुक्त्या नास्तित्वं प्रतिपादितमस्त्येक [घटानां ] त्रयाणामनन्यत्वे तथा पट- रथादि - सर्वभावानां प्रतिपाद्यम् । अतोऽतीतन्यायेन योजयितुमुपायं प्रदर्श५३८-१ यन्नाह-यत्र घटस्यावृत्तिस्तत्र सर्वभावानामवृत्ते (त्ति) रेव । कस्मात् ? घटानर्थान्तरत्वात्, घटाद[न]र्थान्तरत्वं सर्वभावानां भावितमेव, क्व ? अस्तित्वैकत्वयोरनर्थान्तरत्वे घटस्य पटादीनामप्यस्तित्वैकत्वानर्थान्तरत्वाद् घटानर्थान्तरत्वम्, अतश्च घटानर्थान्तरत्वात् सर्वभावानां घटावृत्ताव25 वृत्तिरेवेत्यस्त्येकघटानामनर्थान्तरत्वे दोषः । अथोच्येत - अर्थान्तरमिति । अस्त्येकत्वाभ्यां घटस्योऽर्थान्तरतायां वा, सामान्यमस्तित्वम्, विशेष एकत्वं घटस्य, ततस्तौ सामान्य विशेषौ न स्तः, निःसामान्यत्वाद् निर्विशेषत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् स्यादिति । 20 १ उच्यते य० ।। २ मस्त्यैकमस्त्येकशब्दानां प्र० । अत्र म्, अस्त्येकशब्दानां इत्यपि पाठः स्यात् ।। ३ पृ० ८३५ पं० १२ ।। ४ °तत्वमेकत्वमेकत्वं भा० ॥ ५ द्यसिद्धादि प्र० ।। ६ एति य० । एवेति भा० । दृश्यतां पू० ५५६-१ ।। ७ षानेच्छसि तथा घटोस्ति प्र० ।। ८ घटस्या भा० ।। ९ तुलना - पृ० ८४०-८४१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252