________________
८३७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
भेदेन घट:, तथा च प्रत्यक्षादिविरोधाः । व्यक्ताव्यक्तद्रव्यगुणकर्मोत्पादस्थितिभङ्गसाधनदूषणादिषु ते चापाद्याः ।
एते चेनेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम् । तथा च सर्वे भावाः । यत्र घटस्या - वृत्तिस्तत्र सर्वभावानामवृत्तो (त्ति) रेव, घटानर्थान्तरत्वात् । अर्थान्तरतायां वा अस्तित्व5 सामान्यशून्यत्वाद् एकत्वविशेषशून्यत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् ।
[ द्वादशे नियमनियमारे
रथः पट इत्यादिः, अपादिरित्यपग्नि वायु-भूम्यादि सर्वं सर्वात्मकमेकैकम् । अत आह- सर्वो भेदेन घट: प्रत्येकमित्यर्थः। भवतु सर्वं सर्वात्मकम्, दोषः कः ? इति चेत्, उच्यन्ते दोषाः - तथा च प्रत्यक्षादिविरोधाः । घटादीनां प्रत्यक्षमसर्वात्मकत्वात् प्रत्यक्षविरोधः, प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादि५३७ -२ विरोधा योज्याः ।
10
व्यक्ताव्यक्तेत्यादि । ते च प्रत्यक्षादिविरोधा व्यक्तादिभावेषु । व्यक्तं शब्दादि पृथिव्यादि गवादि घटादि चैकैकर्मस्त्यैक (स्ति, एषा ) मस्त्येकशब्दानां त्रयाणामेकत्वमन्यत्वं वा स्यात् इत्यादिप्रक्रान्तन्यायेन 'अस्तित्वस्वतत्त्वमेकत्वं शब्दस्वतत्त्वं च' इत्यापाद्यं यावत् सर्वसर्वात्मकत्वम्, तदभ्युपगमे प्रत्यक्षादिविरोधाः । अव्यक्ते सत्त्व - रजस्तमसां च प्रत्येकमस्त्येकाव्यक्तानां त्रयाणामित्यादि, अस्त्येक-सत्त्वानामित्यादि, अस्त्येक [ रजसामित्यादि, अस्त्येकत ] मसामित्यादि, तथा पृथिव्यादीनामपि 15 प्रत्येकं गवादीनां च नेयम्, तथा द्रव्य-गुण-कर्मणामिति, तथोत्पाद-स्थिति-भङ्गानाम्, तथा साधनस्य तद्भेदानां प्रतिज्ञादीनाम्, दूषणस्य तद्भेदानां च स्ववचनविरोधाद्यै सिद्ध्यादि-साध्यधर्मवैकल्यादीनामपि प्रोक्तन्यायेन प्रत्यक्षादिविरोधा आपाद्या व्यापित्वादस्य न्यायस्य । एते चेन्नष्यन्ते घटो नास्तीति प्रतिपत्तव्यम्, अथैतान् प्रत्यक्षविरोधादिदोषान् नेच्छसि तदा 'घटो नास्ति' इत्येतत् प्रतिपद्यस्वेति स्वमतशून्यतापादनम् ।
तथा च सर्वे भावा इत्यतिदेशः । यथा घटस्यायुक्त्या नास्तित्वं प्रतिपादितमस्त्येक [घटानां ] त्रयाणामनन्यत्वे तथा पट- रथादि - सर्वभावानां प्रतिपाद्यम् । अतोऽतीतन्यायेन योजयितुमुपायं प्रदर्श५३८-१ यन्नाह-यत्र घटस्यावृत्तिस्तत्र सर्वभावानामवृत्ते (त्ति) रेव । कस्मात् ? घटानर्थान्तरत्वात्, घटाद[न]र्थान्तरत्वं सर्वभावानां भावितमेव, क्व ? अस्तित्वैकत्वयोरनर्थान्तरत्वे घटस्य पटादीनामप्यस्तित्वैकत्वानर्थान्तरत्वाद् घटानर्थान्तरत्वम्, अतश्च घटानर्थान्तरत्वात् सर्वभावानां घटावृत्ताव25 वृत्तिरेवेत्यस्त्येकघटानामनर्थान्तरत्वे दोषः ।
अथोच्येत - अर्थान्तरमिति । अस्त्येकत्वाभ्यां घटस्योऽर्थान्तरतायां वा, सामान्यमस्तित्वम्, विशेष एकत्वं घटस्य, ततस्तौ सामान्य विशेषौ न स्तः, निःसामान्यत्वाद् निर्विशेषत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् स्यादिति ।
20
१ उच्यते य० ।। २ मस्त्यैकमस्त्येकशब्दानां प्र० । अत्र म्, अस्त्येकशब्दानां इत्यपि पाठः स्यात् ।। ३ पृ० ८३५ पं० १२ ।। ४ °तत्वमेकत्वमेकत्वं भा० ॥ ५ द्यसिद्धादि प्र० ।। ६ एति य० । एवेति भा० । दृश्यतां पू० ५५६-१ ।। ७ षानेच्छसि तथा घटोस्ति प्र० ।। ८ घटस्या भा० ।। ९ तुलना - पृ० ८४०-८४१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org