________________
सर्वस्य निःस्वभावत्वसाधनम् ]
द्वादशारं नयचक्रम् भवितव्यम्, अनन्तरत्वात्। यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्त्वस्य। अस्तित्वस्वतत्त्वं च सर्वभावाः। तथा यत्रास्तित्वमित्यादि पूर्ववत् साधनं कृत्वा तदेकत्वेन तूपनयः-एकत्वस्वतत्त्वं च सर्वस्मिन्नेवैकैकस्मिन् । अस्तित्वकत्वाभ्यामनन्ये सर्वभावाः पटादयः। यदस्ति तद् घटाव्यतिरेकात् सर्वमेव घटः। एकश्च घटस्तदनन्यदस्तित्वम्, संश्च घटः तदनन्यदेकत्वम्, तत् सतो घटादव्यतिरिक्तमिति 5 घट एव सर्वसिद्धिः। तथा यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्वेन भवितव्यम्, अनर्थान्तरत्वात् । यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, घट इव घटस्वतत्त्वस्य । अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरेक एको घटादिरपादिः सर्वो
त्यादि तद्दोषप्रदर्शनम्, यत्रैकत्वमस्ति तत्रास्तित्वमपि निष्कलं निरवशेषं स्वेनैव तत्त्वेन भवितुमर्हतीति प्रतिजानीमहे तावत्। कुतः ? अनर्थान्तरत्वात् । यत्र यस्येत्याद्यन्वयप्रदर्शनं हेतोः साध्येन । तत्र 10 तस्येत्याधुपनयः, निष्कलमेव स्वतत्त्वं भवतीति साध्यार्थः । उदाहरणम्-घट इव घटस्वतत्त्वस्येति, घटस्वतत्त्वं यथा घटे निरवशेषमस्ति तदनन्तरत्वात् तथैकत्वेऽस्तित्वस्वतत्त्वं निरवशेषमिति । ततश्चास्तित्वस्वतत्त्वं च सर्वभावा इति कृत्वा सर्वभावानां घटत्वप्रसङ्गः, यदस्ति तद् घटाव्यतिरेकात् सर्वमेव घट इत्युपसंहारो वक्ष्यते।
तथा यत्रास्तित्वमित्यादि पूर्ववत् साधनं कृत्वेत्यतिदेशाद् यत्रास्तित्वं तत्रैकत्वस्यापि 15 निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्त्वस्येति । तदेकत्वेन तूपनय इति विशेषः, तद्यथा-एकत्वस्वतत्त्वं ५३७-१ च सर्वस्मिन्नेवैककस्मिन्, सर्वस्य प्रत्येकमेकैकस्यैकत्वादिति । साधनद्वयेऽप्यस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः पँटादय इत्यनन्यत्वापादनं तुल्यम्। पूर्वत्र एकश्च घटस्तदनन्यदस्तित्वमिति, द्वितीये । संश्च घटः तदनन्यदेकत्वमिति, पूर्वस्मिन् साधने घट: सर्वत्वमाँपद्यते द्वितीये सर्व घटत्वमापद्यते । 20 अथवा तदनन्यदेकत्वमिति द्वितीयसाधनव्याख्याविकल्पः, संश्च घटस्तदनन्यदेकत्वम, तच्च कतमत् ? इति प्रश्ने व्याकरणम्-तत् सतो घटादव्यतिरिक्तमिति घट एव सर्वसिद्धिरिति । पूर्वस्मिस्तु तच्च कतमत् ? इति प्रश्ने सर्वभावा इति व्याकरणमिति विशेषोऽस्मात् तस्य घटे सर्वभावा एकत्वाव्यतिरिक्ताः सिध्यन्तीत्यर्थः। एवं तावदस्तित्वैकत्वाभ्यामनन्यत्वापादनेन घटस्य सर्वत्वं घटे ... सर्वभावसिद्धिरिति दोषाः। .... किञ्चान्यत्--तथा यत्र घटत्वमित्यादि, इदानीं घटत्वेऽस्तित्वैकत्वयोः स्वतत्त्वापादनं तदेव साधनं सभावनम्। उपसंहारः-अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरेक एको घटादिः घटो घठो
___25
• १ पृ० ५५५-१॥ २५०६, २४ ।। ३ तुलना-पृ० ५५५-१॥ ४ रूपनय भा० ॥ ५ सर्वस्मिन्नव भा० । सर्वत्रै य० । तुलना-पृ० ५५५-२॥ ६ तुलना-पृ० ५५५-२, ५५७-२॥ ७ ** एतचिह्नाङ्कितः मापद्यते इत्यत आरभ्य नन्यदे इत्यन्तः पाठो य० प्रतौ नास्ति ।। ८ तुलना-पृ० ५५५-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org