________________
सर्वस्य नि:स्वभावत्वसाधनम् ]
अथ घटपटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वाभेदे, भेदार्थं प्रधानादिप्रवृत्तेः । तत एवमभ्युपगमे यथा घटः पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तस्तथा घटो घटात्मस्वरूपादपि विपरीतः प्राप्तः, अस्तित्वैकत्वविपरीतत्वात्, घटविपरीतपटात्मवत् । इति पुनरपि नास्ति घटः । एवं सर्वभावा अपि, पटानन्यत्वैकत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । ततश्च निःस्वभावभावापत्तिरेव । परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न
अथोच्येत - पटादीनां त्वस्तित्वैकत्वयोः सर्वगतत्वाद् व्याप्तेः ।
एतदेवे कुत इदं यत् ते सर्वगते, न घटः । नन्वेवं सर्वेषामेकरूपेण भवितव्यम्, अनन्यत्वात्, प्रतिवस्तुतत्त्ववत् ।
द्वादशारं नयचक्रम्
अताह- अथेत्यादि । घट- पटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वा- 10 भेदे | किमर्थं किं कारणं वा ? उच्यते- 'भेदार्थं प्रधानादिप्रवृत्तेः प्रधानं हि प्रकृति- बहुधानादिपर्यायं पुरुषोपभोगं शब्दाद्युपलब्धिरूपमाद्यं गुण- पुरुषान्तरोपलब्धिरूपं चान्त्यमुद्दिश्य पुरुषार्थं प्रवर्तमानं शब्दादि पृथिव्यादि - गवादि - घटादिभेदानन्तरेण न शक्नोति पुरुषार्थं कर्तुम्, अतो भेदार्थं प्रधानादिप्रवृत्तेर्घट-पटादयः परस्परविभिन्नस्वभावा एव । तस्मान्न सर्वात्मा (त्म ) दोष : 'अस्त्येकघटानाम्' इत्यत । ततो घटः पटादस्त्यात्मकाद् विपरीतोऽधुनाभ्युपगतः, एवमभ्युपगते पुनरेष दोष आपद्यते यथा घटः 15 पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तः, एवं हि वैपरीत्यं स्याद् नान्यथा, ततश्च तथा घटो घटात्मस्वरूपादपि विपरीतो घटास्तित्वैकत्वव ( त ) दनन्यत्वलक्षणात् प्राप्नोति, ५३८-२ अस्तित्वैकत्वाभ्यां विपरीतत्वात्, घटविपरीतपटात्मवदिति घटात्मनैवाभावात् पुनरपि नास्ति घटः ।
गतार्थः ।
८३८
एवं सर्वभावा अपीत्यतिदेशादेकैको भावः कट- रथादिरभावः स्यात् । कस्मात् ? पटानन्यत्वे - कत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । तदुपसंहारः- ततश्च निःस्वभावभावापत्तिरेवेति 20
अथोच्येतेत्यादि । स्यान्मतम् - पटादीनां परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न त्वस्तित्वैकत्वयोविपरीतता, कस्मात् ? सर्वगतत्वाद् व्याप्तेरिति, अस्तित्वैकत्वाभ्यां हि व्याप्ता घटादयो यस्मात् कुतस्तयोर्वैपरीत्यं यतों व्यावृत्तेः कल्प्येत ? घटादयस्तु परस्परविपरीताः स्युर्व्यावृत्तात्मत्वात् । अतो न निःस्वभावापत्तिरस्तित्वैकत्वव्याप्तेरिति ।
अन ब्रूमः - एतदेकत्वे कुत इदं यत्ते इत्यादि । ताभ्यामस्तित्वैकत्वाभ्यां घटैकत्वेऽभ्युपगम्यमाने कुतोऽयं विशेष आयातः - तयोरेव अस्तित्वैकत्वयोः सर्वगतत्वं न घटस्य, घटस्यैवासर्वगतता नास्तित्व
Jain Education International
१ मेदार्थः प्र० ।। २ पुरुषार्थ प्र० भा० । पुरुषा प्र० य० । ३ ' सार्वात्म्यदोष:' इति 'सर्वात्मतादोष:' इति वा पाठोऽपि भवेदन ॥ ४ पुनरदोष य० ।। ५ * * एतच्चिह्नाङ्कितः विपरीत' इत्यत आरभ्य पटादीनां इत्यन्तः पाठो य० प्रतौ नास्ति ।। ६ प्तेरित्यत्र स्ति भा० ॥ ७ घटादय यस्मा कुत भा० ॥। ८ कल्पेते य० ।। ९ एता प्र० ।।
For Private & Personal Use Only
25
www.jainelibrary.org