________________
८३९
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे अर्थतन्नेष्यते, अर्थान्तरत्वमेवेष्यते, ततो घटबहुत्वं तहि प्राप्तम्-अस्त्यपि घटो भेदेन, एकोऽपि घटः, घटोऽपि घट इति त्रयो घटाः स्युः। अथ घट एवैको घट इष्यते ततः सिद्धस्तहि नास्ति घट इति, अस्तित्वार्थान्तरत्वात् खपुष्पवत्, नैक इति च। एकत्वास्तित्वत्यागाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, भूतित्यागान्न भूतिमात्रम्। इ ततश्चानस्तित्वो घटः। ___ अथोच्येत परिहारः-बढेवास्ति बढेव नास्ति, क्वचिदस्तित्वमेव नास्तित्वमेव वा, तस्माद् घटान्तरपटान्तराद्यस्तित्वविशेषणार्थम् 'अस्ति घटः' इत्युच्यते। तथैकमपि बह्वव, कत्वयोरिति ? अत्र साधनम्-नन्वेवमित्यादि सर्वेषामस्तित्वैकत्वघटानामपि एकरूपेण भवितव्यमिति पक्षः । अनन्यत्वादिति हेतुः । प्रतिवस्तुतत्त्ववदिति दृष्टान्तः, यथा वस्तु वस्तु प्रति यदात्म10 स्वरूपं घटादौ तत् तदनन्यत्वादेकरूपमेव दृष्टम्, रूपरूपत्वमसाधारणं न तद्रसाद्यात्मकमपीत्यविशिष्टं
तथास्त्येकघटानामपीति नास्ति सर्वगतत्वासर्वगतत्वविशेष इति तदवस्था निःस्वभावता। ५३९-१ अर्थतन्नेष्यते निःस्वभावत्वमनन्यत्वं च अर्थान्तरत्वमेवास्त्येकघटानामिष्यते चेत् ततो
घटबहत्वं तहि प्राप्तमिति ब्रूमः, यस्मादस्त्यपि घटो भेदेन एकोऽपि घटो 'भेदेन' इति वर्तते, तथा घटोऽपि घट इति त्रयो घटाः स्युः, अनिष्टं चैतत् । अथ मा भूदेष दोष इति घट एवैको 15 घट इष्यते, न त्वस्तित्वैकत्वे घट इति, ततः सिद्धस्तहि नास्ति घट इति । कस्मात् ? अस्तित्वार्थान्तरत्वात् खपुष्पवत् । नैक इति च 'सिद्धं तर्हि' इति वर्तते । किञ्चान्यत्, एकत्वास्तित्वत्यामाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, एकत्वत्यागात्, एकैकत्वाच्च रूपादीनां रूपादिष्वभावे घटस्य 'रूपादयो (दीनां) समुदायो घट[:] संवृतिसन्' इत्येतन्निवर्तते । तथा क्षणिक इत्येकक्षणावलम्बिनोऽस्तित्वं क्षणिकवादेऽभ्युपगतं 'भूतिर्येषां क्रिया सैव' [
] इति, 20 भूतेरस्तित्वस्य त्यागान भूतिमात्रमिति च प्राप्तम् । अनिष्टं चैतदुभयमपीति। ततः किम् ?
ततश्चानस्तित्वो घट इति प्राप्तम्, नास्त्यस्तित्वं यस्य सोऽनस्तित्वः, यो घट इत्युच्यते सोऽनस्तित्वः, तच्च विज्ञानमात्रमिदं सर्वं बाह्यार्थशून्यमिति वक्ष्यमाणः पक्षोऽभ्युपगतो भंवतीति ।
। अथोच्यतेत्यादि । अत्र यदि परिहारः परेणोच्येत तद्यथा-बह्ववास्ति घंटपटादि प्रत्येक५३९-२ बृत्तेरस्तित्वस्य, तथा बह्वेव नास्ति घट-पटाद्येव परस्परव्यावृत्तस्वरूपा (पत्वा)त् । तच्च क्वचिदे25 कैकस्मिन्नर्थे न सर्वत्रास्तित्वमेव नास्तित्वमेव वा । तस्माद् घटस्य पटाद् विशेषणार्थम् 'अस्ति घट:'
इति घटस्यैवास्तित्वमुच्यते, तथैकमपि बह्वेव घट-पटादि, तदेव द्वित्रिचतुरादिसङ्ख्यमपि, तस्मात् 'एकम्' इति द्वयाविशेष्योच्यते । तत्रैवंविधे वस्तुनि 'अस्त्येको घट:' इति अस्त्येक-घटानां त्रयाणाम
१ पूर्वापरपर्यालोचनया 'सिद्धस्तहि' इति पाठः पूर्वानुसारेणात्र भवेत्, पूर्वत्र वा 'सिद्धं तहि नास्ति' इति पाठो भवेदेतदनसारेणेति ध्येयम् ॥ २ च्च रूपादिष्वभावे घटरूपादयो भा०।। ३ संवत्ति प्र० ॥ ४ पृ० ८०१ पं०७॥ ५ यस्य नोनस्तित्वोप्र०॥६(ततश्च?) ।। ७ भवति भा०।। ८घटपटादेः य० । घटपटाद भा०॥ ९षोच्यते य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org