________________
शून्यत्वसाधनम्]
द्वादशारं नयचक्रम्
८४०.
तदेव द्वयादिसङ्ख्यमपि, तस्मात् ‘एकम्' इति द्वयादेविशेष्योच्यते । तत्र 'अस्त्येको घटः' इति त्रयाणामनन्यत्वे सर्वैकत्वप्रसङ्गः अन्यत्वे वा घटबहुत्वप्रसङ्गश्च कुतः ? ..... ।
एतन्न परिहारवचनम्, सर्वसमयाप्रसिद्धः, अस्तित्वस्य रूपान्तराभावात्। तदभेदे तु सर्वैक्यम् अन्यत्वपक्षे वा घटबहुत्वम् । तथापि च नास्तित्वमेव खपुष्पवत् । इतरेतरासत्त्वाभ्युपगमाच्च कुतोऽस्तित्वं तेषाम् । अनन्यत्वेऽप्यसत्त्वमुक्तवत् । ___अथोच्येत-भिन्नास्तित्व एव घटः, आत्मलाभे भिन्नप्रकारत्वात्, पटकटधीवत्, 'कटो हि नास्ति पटः' इति बुद्धिः पटबुद्धिभिन्न प्रकारेणात्मानं लभते पटबुद्धिश्च कटबुद्धः, ते च भिन्नास्तित्वे दृष्टे तथा घटोऽपि भिन्नास्तित्वः ।
नन्यत्वात् सर्वेक[त्व]प्रसङ्गः, अन्यत्वे वा 'अस्त्यपि एकोऽपि घटोऽपि घटः' इति घटबहुत्वप्रसङ्गश्च, कुत आयातावेतौ प्रसङ्गौ ? इति परिहारः ।
10 __अत्र ब्रूमः-एतन्न परिहारवचनम् । कस्मात् ? सर्वसमयाप्रसिद्धः, 'अस्ति' इत्यस्य तद्भावोऽस्तितत्त्वं तन्न कस्यचित् साङ्ख्यादीनां समये सिद्धं 'बहु' इति । कस्मात् ? अस्तित्वस्य रूपान्तराभावात्, यदि स्याद् रूपान्तरं घटेऽन्यत् पटेऽन्यदस्तित्वं रथादिषु च शेषेष्वन्यदन्यच्च स्यात् ततो नानारूपमेव स्यात्-किञ्चिदस्ति किञ्चिन्नास्ति किञ्चिदस्ति च नास्ति चेति, अनिष्टं चैतत् । तस्मादयुक्ता कल्पना- घटान्तर-पटान्तराद्यस्तित्वेभ्यो विशेषणार्थम् 'अस्ति घटः' इति, तथा ‘एको घटः' 15 इत्यपि ज्ञेयम् । तस्मादभेद एवास्तित्वस्य, तस्मिश्च तदभेदे तु घटादीनामस्तित्वादनन्यत्वपक्षे सर्वेषामैक्यम्, अन्यत्वपक्षे वा घटबहुत्वमिति तदवस्थौ प्रसङ्गौ ।
किञ्चान्यत्-तथापि च नास्तित्वमेव, एवमप्यस्तित्वसामान्यशून्यत्वादेकत्वविशेषशून्यत्वाच्च नास्तित्वमर्थान्तरतायां खपुष्पवत् । 'इतरेतरासत्त्वाभ्युपगमाच्च' इत्यतो हेतोः कुतोऽस्ति[त्वं] तेषां घटादीनामिति ? अनन्यत्वेऽपि प्रत्यक्षादिविरोधस+क्यदोषापादनद्वारेणासत्त्वमुक्तवदिति। 20
अथोच्यत-भिन्नास्तित्व एवेत्यादि। भिन्नमेवास्तित्वं घटस्य पटाद्यस्तित्वात् प्रत्येकमसाधा- ५४०-१ रणात्मलाभादिदेश-काला-ऽऽकार-निमित्तादिभेदेन, तदिदं प्रतिज्ञायते-भिन्नभवनो भिन्नास्तित्व एवं घट इति । कुतः ? आत्मलाभे भिन्नप्रकारत्वात, आत्मलाभे जन्मनि उपलब्धौ घटस्य घटान्तरात् पटादिभ्यश्च देश-काला-ऽऽकार-निमित्तादिप्रकारो भिन्न एव व्यावृत्तात्मरूपत्वात् । किमिव ? - पट-कटधीवत्, तद्वयाख्या-कटो हि नास्ति पट इत्यादि, यथा 'कटः' इति बुद्धि: पटबुद्धेभिन्नेन 25
१ 'सर्वैक्यप्रसङ्गः' इत्यपि पाठोऽत्र भवेत् ॥ २ 'स्तितत्वं प्र०। (स्तित्वं?)॥ ३ समयसिद्धं य० ।। ४ दन्यत्व प्र० ॥ ५ दस्ति नास्ति य० ॥ ६ पृ० ८३७ पं० ५, पृ० ८४१ ।। ७ सच्चैक्य प्र० ॥ ८ पृ० ८३७, पं०१॥ ९ य० प्रतौ 'उत्पत्तौ इति लिखित्वा अनन्तरम् 'उपलब्धौ' इति पाठः कृतः ।। १० व्यावृत्त्यात्म प्र०।। पृ० ८३९ पं० २४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org