________________
८४१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वादशे नियमनियमारे . एतदपि न, उक्तसत्त्वतुल्यत्वात् । येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभः, अस्तित्वेन भवनाविशेषात्, अभिन्नास्तित्वों घटः, नसहितः स एव हेतुः, एकघटवत् । तथैकत्वमपि।।
यदि तु ताभ्यामपि घटोऽन्यस्ततो घटस्य शून्यत्वम्, अस्तित्वैकत्वशून्यत्वात्, खपुष्पवत् । अनन्यत्वे तु सर्वभावा अपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्याम् अनर्थान्तरत्वाद् घटवत् ।
अथैवं घटादिसर्वभावघटत्वं नेष्यतेजनार्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा भूत्, भवनविशेषहेत्वभावात्, पटवत्।।
प्रकारेणात्मानं लभते पटबुद्धिश्च कटबुद्धेः, ते च कटपटधियौ परस्परतो भिन्नास्तित्वे दृष्टे, तथा 10 घटोऽपि भिन्नप्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्व इति ।
एतदपि न, उक्तसत्त्वतुल्यत्वात्, इदमपि अनन्तरोक्तपटादिव्यतिरिक्ताभिमतघटास्तित्वेन तुल्यं घटाभिन्नास्तित्वम, तस्मादुक्तसत्त्वतुल्यत्वादसत्त्वमेवेत्यर्थः । भिन्न प्रकारत्वादित्यस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽपि अस्तित्वव्याप्तिसाधनत्वे तुल्यत्वं वेति द्विधापि उक्तसत्त्वतुल्यत्वाद् न त्वदभिमतभिन्नास्तित्वो घट इति सम्बन्धः । तस्य व्याख्यानं समानार्थद्वयस्येत्यत आह-येन 15 प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभोऽस्तित्वेन भवनाविशेषात् । ५४०२ नानारूप्ये ऽस्तित्वं] नास्ति[त्व]मस्तित्वनास्तित्वं वा स्यादित्युक्तम् । तस्मादात्मलाभस्याभिन्नरूपत्वाद
भिन्नास्तित्वो घटः। विरुद्धाव्यभिचारी वाऽयम् अभिन्नास्तित्वो नसहितः स एव हेतुरिति 'अभिन्नप्रकारात्मलाभत्वात्' इति प्रयोक्तव्य इत्यभिप्रायः । एकघटवदिति दृष्टान्तः, यथैव हि घट
आत्मलाभक्षणेऽत्यन्तमभिन्नास्तित्वस्तथा घटान्तराणि पटादयश्चेति। तथैकत्वमपीति नेयम् । 20 एवमेकत्वास्तित्वाभ्यामभिन्नो घटः ।
यदि त्वित्यादि। यदि तु ताभ्यामपि घटोऽस्तित्वैकत्वाभ्यामन्यस्ततो घटस्य शून्यत्वमस्तित्वैकत्वशून्यत्वात् सामान्य-विशेषवत्त्वासत्त्वादसत्त्वमेव खपुष्पवदिति प्रागुक्त इत्यर्थान्तरपक्षदोषोपसंहारः। अनन्यत्वे त्वित्यादिनोऽनर्थान्तरपक्षदोषोपसंहारो गतार्थो यावद् घटवदिति । तस्मात् स्थितमेतदाद्युक्तम्-घटवत् पटाद्यपि घट इति । 25 अथैवमित्यादि। अथैवं न्यायापादितमपि घटादिसर्वभावघटत्वं नेष्यते प्रसिद्धयादिबलेन केनचिद[न]र्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा "भूत, भवनविशेषहेत्वभावात्,
१ पृ० ८४० पं० ६॥ २ चेति य० ॥ ३ पृ० ८४० पं०६॥ ४ पृ० ८६६ पं० ५ ॥ ५ पृ० ८४० पं० १४ ॥ ६ विरुद्धाव्यभिचारिणः स्वरूपमत्र टिपृ० ८४ पं० १४ इत्यादौ विलोकनीयम् ।। ७ नसहित एव य०प० ५५७-१-।। ८ एवघट प्र० ।। ९ 'यथै [क ए]व हि' इत्यपि भवेत् पाठः, दृश्यतां पृ० ८६६ पं० २३ ॥ १० पृ० ८३७ पं० २६, पृ०.८४० पं० १८ ।। ११°रदोषों य० ॥ १२ नानार्थान्तरं प्र०। पृ० ८६७ पं० ११॥ १३ १० ८३६ पं०९। आदावुक्तमित्यर्थः ॥ १४ भूदित् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org