________________
सर्वस्य निःस्वभावत्वसाधनम्]
द्वादशारं नयचक्रम्
८४२
एवमनभ्युपगमे वा घटो घट एवेष्टोऽस्तित्वैकत्वाविशेषात् एव[म]घट एव घटः स्यात्, तस्मादेव हेतोः, घटवत् ।
नन्वयमेव रूपादिष्वपि तद्विषयविज्ञानाभिधानविपर्ययोऽपि योज्यः। बहुत्वप्रसङ्गो वा। तस्मान्न सन्ति घटादयः।
नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते। ननु तत् सर्वसिद्धान्तेष्वपि 5 प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते। इत्ययुक्तेर्घटादीनां शून्यता। तथानुत्पादादपि शून्यत्वं वस्तुनः।
15
अस्तित्वकत्वानर्थान्तरत्वे घटभवनात् पटादिभवनानां न कश्चिद् विशेषोऽस्ति, न च तत्कारणम्, तस्माद् भवनविशेषहेत्वभावात् पट वद् घटोऽपि घटो मा भूदिति घटस्य घट[त्वा]भावः । एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतो: सर्वत्र वर्तिनोघंटो घट एव नियतरूपो न त्वंघटो घट इष्टः, 10 कस्मात् ? अस्तित्वैकत्वाविशेषात् एव[म?]घट एव घट: स्यात् तस्मादेव हेतोर्घटवदघट एव ५४१-१ सन्नपीति ।
नन्वयमेवेत्यादि तदेवानुज्ञापयन् रूपादिष्वनिष्टमापादयति । यथास्तित्वैकत्वे सत्येव घटादीनां विपर्ययः पटादित्वेन प्रापितः तथा 'रूपं लोके रूपमेव न रसः' इति सिद्धमपि रूपं न स्यात् 'रसोऽपि रसो मा भूद् रूपं स्यात्' इति तद्विषयविज्ञानाभिधानविपर्ययोऽपि योज्य इति ।
बहुत्वप्रसङ्गो वा अस्तित्वैकत्व-घटत्वैकत्वपंक्षे दोषा एते मा भूवन्नित्यन्यत्वपक्षाभ्युपगमे घटबहुत्वप्रसङ्ग उक्तवत् स्यात् । तस्मान्न सन्ति घटादय इति ।
आह-नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तप्तिसुखादि विरुध्यते, श्रम-ऽऽतङ्क-भयादिवेदनार्दितानां तत्प्रतीकारात् तदुपशमे सुखं बुभुक्षा-पिपासादितानां च तृप्तिः प्रत्यक्षतो दृश्यते तस्मात् प्रत्यक्षविरोधादयुक्ता कल्पनेति।
20 अत्रोच्यते-ननु तत् सर्वसिद्धान्तेत्यादि। अव्युत्पन्ना-ऽविशुद्धमहाजनप्रत्यक्षादिभ्रान्तिविज्ञानाप्रमाणीकरणेनैव रूपादिविषयजन्यतृप्तिसुखादिषु अनाश्वासादतथात्वाच्च मृगतृष्णिकातोयाद्यनाश्वासवद् मोक्षायैव यतितव्यमिति प्रवृत्तसर्वमोक्षार्थशास्त्रेषु सिद्धत्वादितीत्थमयुक्तघटादीनां शून्यता।
तथानुत्पादादित्यादि । अयुक्तेः 'शून्यत्व[व]दनुत्पादादपि वस्तुनः शून्यत्वं प्राप्नोति वस्तु-25 वादिनः, उत्पत्ति-विनाशयोरसत्त्वेऽनुत्पन्नाविनष्टत्वात् खपुष्पवदित्युपंसंहरिष्यमाणशून्यत्वात् । आद्यन्तयोर्जाताजातयोरनुत्पादादसदिति । तत्र आदिरुत्पत्तिः, अन्तः क्षयः, तावाद्यन्तौ विद्य यातां न वेति द्वौ ५४१-२
१त्वपटो प्र० ।। २ एवं घट भा० ।। 'एवं पट एव घटः' इत्यपि पाठोऽत्र भवेत ।। ३ तथा य० ।। ४ पक्ष य० ॥ ५ पु० ८३९ पं० १३ ।। ६ पु० ८६७ पं०१४ ।। ७ पु. ८६७ पं० ११॥ ८°दितिथात्वा य० ।। ९ शन्यवद भा० । तुलना-पृ० ८६७ पं० २२ ॥ १० पृ० ८४६ पं० २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org