________________
८४३
[द्वादशे नि
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे ... आद्यन्तौ विद्येयातां न वा? यदि न स्तस्ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वात् स्थितिरेव । सा च प्रत्यक्षादिविरुद्धा। स्थितवस्तुत्वाद् विपरीतमवस्तु खपुष्पवत् । अनुत्पादाभ्युपगमेन सर्वसिद्धान्तव्याघातश्च ।
अथोच्येत-साङ्खयानामेव तावत् सत्कार्यवादित्वादव्याघात इति । नाव्याघातः, 5 प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमादारम्भाभ्युपगमात् आरम्भमन्तरेण क्रियाऽभावात् क्रियामन्तरेण च निष्ठानाभावात् । अतस्तानि आरब्धान्येव, निष्ठितत्वात्, घटवत् । आरब्धत्वात् कृतकत्वात् पर्यवसानवन्त्यपि। यत्त्वेवं न भवति तदसत् प्रधानादि खपुष्पवत् ।
विकल्पौ च, तयोः कतरमिच्छसि ? यदि ने स्त इतीच्छसि ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वाद्
घटादीनां नित्यता स्यात् स्थितिरेव, सा च प्रत्यक्षादिविरुद्धा स्थितिः, उत्पत्तिविनाशदर्शनात् । 10 प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादिभिरपि विरुध्येत । किञ्चान्यत्, स्थितवस्तुत्वाद् विपरीतमवस्तु, उत्पन्नमवस्तु प्राप्नोति, स्थितवस्तुविपरीतत्वात्, खपुष्पवत् । किञ्चान्यत्, ‘अनुत्पन्नमेव सर्वं वस्तु' इत्यभ्युपगमे सर्वसिद्धान्तव्याघातश्च, वैशेषिकसिद्धान्ते तावदुत्पत्तिमभ्युपेत्योक्तम्-द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम् [वै० सू० १।१३८, ९], क्रिया-गुणव्यपदेशाभावादसत् [व० सू० ९।१] इत्यादि प्रागसत्कार्योत्पत्तिव्याख्यानात् । 15. अत्राह--त्वयोक्तं सर्वसिद्धान्तव्याघातोऽनुत्पादाभ्युपगमेन इति, तदयुक्तम्, तिष्ठन्तु तावत्
पुरुषादिवादाः, साङ्ख्यानामेव तावत् सत्कार्यवादित्वादव्याघात इति । अत्र ब्रूमः, एतत् त्वन्मतं तावत् प्रत्युच्चारयामः-तद्यथा-अथोच्यत--साङ्ख्यानामेवेत्यादि। तस्योत्तरम्-नाव्याघात इत्यादि, नाव्याघातो व्याघात एव, द्विःप्रतिषेधस्य प्रकृत्यापत्तेः। कथमसत्कार्यानभ्युपगमात् ? इत्युच्यते
प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमात्, 'नित्यं निष्ठितमेव प्रधान-महदहंकारादिव्यक्ताव्यक्त20 ज्ञाख्यं सर्वम्' इत्यभ्युपगमादारम्भोऽभ्युपगतो भवति, आरम्भमन्तरेण क्रियाऽभावात् क्रियामन्तरेण च ५४२-१ निष्ठानाभावात् । तदुपसंहृत्य साधनमाह-अतस्तानीत्यादि, तानि प्रधानादीनि आरब्धान्येव,
निष्ठितत्वात, घटवत्, घटनिष्ठान-क्रिया-ऽरम्भाणां लोकप्रसिद्धत्वादुदाहरणसिद्धेः प्रधानादीनां तदुपनयसिद्धिः । एवमारब्धत्वात् कृतकत्वसिद्धिः, तथा कृतकत्वा[त्] पर्यवसानवन्त्यपि तस्मादाद्यन्तवन्तः प्रधानादयः ।
यत्त्वेवं न भवतीत्यादि वैधर्म्यदृष्टान्तः साधनान्तरं वा गतार्थमाद्यन्तवत्त्वाभावे खपुष्पवद25 सत्त्वापादनं प्रधानादीनाम्, आदिग्रहणात् पुरुषादिष्वपि प्रसङ्गः समानचर्चः ।।
१ चे भा० ।। २ नाम्न इती प्र० ।। ३ स्थितिरेवं य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org