________________
विज्ञानमात्रत्वमाकाशादीनाम् ]
द्वादशारं नयचक्रम्
अथ त्वेवमपि नैवाभ्युपगम्यते आरम्भादि ततो नित्यवृत्तत्वादनारब्धत्वादकृतकत्वादनिष्ठितमसदाकाशवत् ।
नन्वाकाशं शुद्धपदवाच्यत्वाद् निर्वृत्तं निष्ठितं सदेव प्रमाणज्ञानवत् । कुतोऽस्य शुद्धपदता ? आङ् ईषदर्थ उपसर्गः, काशृ दीप्तौ [पा. धा. ६४७], आकाशते मृगतृष्णिकावदाभासत इत्याकाशम् । यदि च खादिशुद्धपदार्थप्रतिपत्तिस्ततो विज्ञानमात्रमेवेदं सर्व- 5 मिति नाभ्युपगच्छेम । अस्माकं हि खादिशुद्धपदार्थानामपि विज्ञानमात्रता । अनेन सर्वे शब्दा असदर्था एव ।
अथ मा भूद् विज्ञानमात्रताप्रसङ्ग इति प्रधानादिरादिः, तदेव कारणं तन्मात्रं चेदं
८४४.
अनेनैव साधनेन गतार्थत्वेऽपि उपपत्त्यन्तरनिराकरणार्थमाकाशदृष्टान्तेनानिष्टापादनसाधनम् - अथ त्वेवमपि नैवाभ्युपगम्यते आरम्भादीत्यादि यावदाकाशवदिति ।
10
आह- नन्वाकाशमित्यादि आकाशात्सत्त्वासिद्धिप्रदर्शनार्थमनुमानम् । 'शुद्धपदवाच्यत्वान्निर्वृत्तं निष्ठितं सदेव तत् प्रमाणज्ञानवदिति । अत्रोच्यते - कुतोऽस्य शुद्धपदता ? इति हेत्वसिद्धयापादनम्, तस्य समासपदतां दर्शयति- आङीषदर्थ उपसर्गः, काँस (शू) दीप्तौ धातुः, आकाशत इत्याकाशम्, कुगतिप्रादयः [पा० २।२।१८] इति समासत्वात् । कोऽस्यार्थः ? इति तत्प्रदर्शनार्थमाह- मृगतृष्णिका - वदाभासत इत्याकाशमिति, यथा मृगतृष्णिका जलार्थत्वेनासती तद्वदाभासते तथाकाशमप्यविद्यमानं 15 विद्यमानवद् विज्ञानेन गृह्यते विज्ञानस्यैव तथा तथोत्पादात् ।
स्यान्मतम्-ख-वियद्-व्योमादिशुद्धपदवाच्यत्वान्नीसिद्धिरिति । एतच्चायुक्तम्, यदि च खादि - ५४२-२ शुद्धपदार्थेत्यादि । यदि वयं शुद्धपदवाच्यमपि शब्दार्थं प्रतिपद्येमहि ततो 'विज्ञानमात्रमेवेदं सर्वम्' इति नाभ्युपगच्छेम न ब्रूयाम, अस्माकं हि 'वियद्-गगन-खौ -ऽम्बर- व्योम - माया-शून्य - घटपटादिशब्दानामपि विज्ञानव्यतिरिक्तो नैवार्थोऽस्ति' इति सिद्धम्, तत्प्रतिपादनार्थं च यतिष्यामहे ।
अनेनेत्यादि । एतेन खादिशुद्धपदार्थापलापेन 'सर्वे शब्दाः क्रिया- कारकसम्बद्धार्थवाचिन एव इति नैरुक्ताभिमतानां व्युत्पत्तिपक्षे यादृच्छिकशब्दानां वाऽव्युत्पत्तिपक्षे डित्यादीनां नादिप्रतिषेधसहितानां केवलानां वा न कश्चिद् वाच्योऽर्थोऽस्त्यन्यत्र विज्ञानाधाननिमित्तमात्रत्वादसदर्था एव सर्वशब्दा इति ।
अथ मा भूदित्यादि । स्यान्मतम् - निष्ठितत्वादेर्विज्ञानमात्रताप्रसङ्गः, स मा भूदित्यन्यथा - 25 दिरिष्यते, क: ? प्रधानादिरादिः प्रधान- पुरुष - काल-स्वभावादि, तदेव च कारणम्, तन्मात्रं चेदं घट
१ पृ० ८४६ पं० १९ ।। २ निर्वृत्तमनिष्ठितं प्र० । ३ " कासू शब्दकुत्सायाम् - पा० धा० ६२३ ।। ४ न सिद्धि प्र० ।। ५ खापरं य० । खापर भा० ।। ६ 'संबंधार्थ य० ।। ७ निरुक्ता भा० ।। ८ कश्चिद्विस्त्यन्यत्र य० ॥ ९ दशदर्था य० । दर्था भा० ॥
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org