________________
5
८४५
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
कार्यम्, पूर्व प्रत्युपसंहारसमाहितत्वात् । ततो भूतानामेव सत्त्वमादिः ।
स सोपसंहारः किं नित्यः, अनित्यः ? यदि नित्यस्ततोऽकृतकत्वादनारब्धत्वादनिष्ठितत्वादसन् खपुष्पवत् । अथादिनित्यतायां दोषात् नित्यनिष्ठितमिष्यतेऽतः पूर्ववदेव सत्वानुपपत्तिः । अन्तनित्यतायामसत्त्वमेव ।
अथ नित्यत्वदोषदर्शनादादिरनित्य इष्यते स किं जातः अजातः ? यदि जातः, अनुत्पादस्तर्ह्यस्य, जातत्वात् निर्वृत्तघटवत् । अथाजातः, तथाप्यनुत्पाद: अजातत्वात् खपुष्पवत्। अनुत्पन्नत्वादसत् । जाताजातश्चेद् विरोधादसम्भव उभयदोषवत्वाच्च ।
[ द्वादशे नियमनियमारे
पादि कार्यम्, कस्मात् ? पूर्वप्रत्युपसंहारसमाहितत्वात्, कार्यात् प्रागपि तस्मिन्नेव प्रधानाद्यन्यतमकारणमात्रत्वे समाहिता एव विकारा उत्तरकालमपि तत्रैवान्तर्लीनाः, ततो भूतानां विद्यमानानामेव 10 घटादीनां सत्त्वं नित्यत्वमादिः नाऽऽरम्भादिरिति ।
इत्यत्र पृच्छ्य से - स सोपसंहार इत्यादि । सँ आदि: प्रधानादिकारणाख्यः सहोपसंहारेण किं ५४३-१ नित्यः ? उताहोस्विदनित्यः ? इति निर्धार्यः । तत्र यदि नित्यस्तत आदिरेव न भवति अकृतत्वादनारब्धत्वात् । ततः किम् ? ततश्चानिष्ठितः, अनिष्ठितत्वादसँन् खपुष्पवत् ।
अथाऽऽदिनित्यतायामित्यादि । एतद्दोषभयाद् नित्यनिष्ठितं पूर्वोत्तरतुल्यकालवृत्तीष्यतेऽतः 15 पूर्वोक्त एव दोषः–नित्यवृत्तत्वादेनारब्धत्वाद कृतकत्वादनिष्ठितं खपुष्पवदाकाशवद्वेत्यादीति तदेवातिदिशति यावद् विज्ञानमात्त्रार्थता, पूर्ववदेव सत्त्वानुपपत्तिरिति । एवमुत्पत्तिनित्यत्वे * स्थितिनित्यत्वे वाऽसत्त्वमुक्तम् । अन्तनित्यत्वं विनाशनित्यता, तस्यां त्वन्तनित्यतायामसत्वमेव । एवं तावदानित्यत्वे दोषः ।
20
अथ नित्यत्वेत्यादि । आदेर्नित्यत्वे दोषं दृष्ट्वा तत्परिहारार्थमादिरनित्य इतीष्यते तत्र ती ) गतिः - जातस्याजातस्य जाताजातस्य वा ? किं जातः ? किमजात: ?' इति विकल्पद्वयप्रश्नादेव तत्संयोगजस्य तृतीयस्य विकल्पस्य सिद्धेः । यदि जात इत्यादिना द्वयोराद्यविकल्पयोरुत्पादाभाव:, अनुत्पन्नत्वादसदिति गतार्थम् । जाताजातश्चेदिति तृतीयविकल्पस्य विरोधादसम्भवः । किञ्च, उभयदोषवत्त्वाच्च, यो जातत्वे दोषो यश्चाजातत्वे ताभ्यां युक्तो जाताजातत्वपक्षोऽतस्त्याज्यः । एवमुत्पादे दोषाः ।
१ म्भादिति य० ।। २ पृ० ८६९१०४ ॥ ३ एवच्चाङ्कितः 'दसन् इत्यादि नित्यत्वे इत्यन्तः पाठो भा० प्रतौ नास्ति || ४ पृ० ८७० पं० ३ ।। ५ पृ० ८४४ पं० १ ।। ६ पूर्ववदेवास य० ॥ ७ पृ० ८४७ पं० ९ ॥ ८ पृ० ८४७ १०९ ।। ९ पृ० ८४६ पं० ३ ।। १० दोषवंधाच्च भा० । दोषबंधाच्च य० ॥
Jain Education International
**
For Private & Personal Use Only
www.jainelibrary.org