SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सर्वभावशून्यत्वम् ] द्वादशाएं मयचक्रम् ८४६ निष्ठायामपि त एव विकल्पाः। यदि निष्ठितो नितिष्ठति, न नितिष्ठति, निष्ठितत्वात्, निवृत्तघटवत् । अनिष्ठितोऽपि न नितिष्ठति, अनिष्ठितत्वादसत्त्वादकर्तृत्वात्, खपुष्पवत् । नोभयमुक्तवत् । __ अन्तेऽपि किं विनष्टो विनश्यति अविनष्टो विनष्टाविनष्टोवा? यदि विनष्टो विनश्यति, न विनश्यति, विनष्टत्वात्, विनष्टघटवत् । नाविनष्टोऽक्षतघटवत्, अभूतविन-5 श्यद्भावत्वात् अक्षतघटवत् आकाशवद्वा। नोभयमुक्तवत्। इत्थमनुत्पन्नास्थिताविनष्टत्वात् खपुष्पवदभाव एव स्याद् वस्तु। अथोच्येत-किं न एताभ्यामाद्यन्ताभ्यां वस्तुनोऽस्वरूपाभ्यां विचारिताभ्याम्? वस्तु विचार्यम् । एतौ हि वस्तुन आत्मलाभात् पूर्वोत्तरकालौ। तदभावेऽपि वस्तु भवितुमर्हत्येव तन्मध्ये। 10 'निष्ठायामपीत्यादि । किं निष्ठितो नितिष्ठति अनिष्ठितो निष्ठितानिष्ठितो वा ? इति त एव विकल्पाः, तेष्वपि त्रिषु दोषा उत्पादवदुक्तन्यायेन नीता एव यावद् नोभयम् उक्तवदिति । अनिष्ठितोऽसन्, असत्त्वादकर्ता, अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठतीति विशेषः] शेषं गतार्थम् । __ अन्तेऽपीत्यादि । विनाशेऽपि किं विनष्टो विनश्यति अविनष्टो विनष्टाविनष्टो वा? यदि 'विनष्टो विनश्यति' इतीष्यते इत्युपक्रम्य विष्वपि विकल्पेषु यावद् नोभयमुक्तवदिति । 15 नाविनष्टोऽक्षतघटवदित्यस्य व्याख्यानम्-अभूतविनश्यद्भावत्वात्, अभूतोऽनुत्पन्नो विनश्यद्भावोऽस्येति अभूतविनश्यद्भावः, तस्मादभूतविनश्यद्भावत्वात् अक्षतघटवदिति । आकाशवदिति ५४३-२ वा 'अभूतविनश्यद्भावत्वात्' इत्यस्यैव हेतोदृष्टान्तान्तरम्, अस्यानुगमप्रदर्शनं कृत्वा प्रसङ्गः 'कार्यः शुद्धपदवाच्यत्वादित्यादिर्यावद् विज्ञानमात्रतेत्यादि। नोभयमुक्तवत् न विनष्टाविनष्टं विनश्यत्यसम्भवात्, अँसम्भवो विरोधादुभयदोषाच्चेति पूर्वोक्तन्यायानुसारेण। इत्थं नोत्पत्ति-स्थिति-भङ्गाः 20 सिध्यन्ति, तदसिद्धेरैनुत्पन्ना-ऽस्थिता- विनष्टत्वात् खपुष्पवदभाव एव स्याद्वस्त्विति । अथोच्येत-कि नः? इत्यादि। स्यान्मतम्-किमताभ्यामाद्यन्ताभ्यां वस्तुनोऽस्वरूपाभ्यां विचारिताभ्यां प्रयोजनम् ? वस्तु विचार्यम् । एतौ हि आद्यन्तौ वस्तुन आत्मलाभात् पूर्वोत्तरौ कालौ, वस्त्वात्मलाभात् पूर्वः काल आदिरुच्यते उत्तरोऽन्तः । तयोरभावेऽपि वस्तु भवितुमर्हत्येव तन्मध्ये, तस्मादस्ति वस्त्विति । १ पृ० ८६९ ।। २ विशेषं गतार्थम् भा० । विशेषं गतार्थम् य० । 'नितिष्ठतीति, शेषं गतार्थम्' इत्यपि पाठोऽन्न स्यात् ।। ३ किचिन्नष्टो य० ॥ ४ ऽकृतघटव भा०॥ ५ कोर्थःप्र०॥ ६ पृ०८४४५०३।। ७०८४५पं०७॥ ८पृ० ८४२ पं० २६ ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy