________________
८४७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[द्वादशे नियमनियमारे .... तन्मध्ये मध्यं वा मध्यक्षणो वोभयमपि किं जातमजातं वा स्यात् ? यदि जातमनुत्पादस्तहि अस्य, जातत्वात्, निवृत्तघटवत् इत्यादि स एव ग्रन्थस्तुल्यदोषत्वात्।
पूर्वोत्तरकालावपि न स्तः, विनष्टानुत्पन्नत्वात्, तदपेक्षत्वात् तन्मध्यवस्त्वभावः, दग्धेन्धनज्वालावत् । असत्तु भवति पूर्वोत्तरकालयोरसत्त्वात् खपुष्पवत् । 5 अथोच्येत-आदौ मध्येऽन्ते च कार्य तत्त्वोपनिलयनात् प्रागसदेव, आदौ मध्ये च तदर्थं प्रवृत्तेः। तत्त्वोपनिलयनादुत्तरकालमस्ति, तदर्थमप्रवृत्तेः। एतदसत्यम्, तदसत्त्वानतिवृत्तेः । असदेव स्यात् तत्, आदिमध्यान्तेष्वप्यभूतत्वात्, खपुष्पवत् ।
अत्र ब्रूमः--तन्मध्ये मध्यं वेत्यादि । तयोः पूर्वोत्तरकालयोर्मध्ये यत् तद्वस्तु भवितुमर्हतीति __ मन्यसे यो वा पूर्वोत्तरकालयोर्मध्यक्षणश्चिन्त्यते तदुभयमपि कि जौतममजातं वा वस्तु स्यात् ? यदि 10 जातमनुत्पादस्तीस्य, जातत्वात्, 'निर्वृत्तघटवदित्यादि स एव त्रिषु विकल्पेषु योज्यो दोषापादनग्रन्थस्तुल्यदोषत्वात् ।
किञ्चान्यत्, यावपि च तौ कालौ पूर्वोत्तरौ तावपि न स्तस्त्वन्मतादपि विनष्टानुत्पन्नत्वात्, तदभावे तयोः कालयोरभावे तदपेक्षत्वात् तन्मध्यवस्त्वभावः। किमिव ? दग्धेन्धनज्वालावत् ५४४-१ यथेन्धनाश्रया ज्वाला इन्धनापेक्षा भवन्ति इति सम्भाव्या अपि निर्दग्धे तस्मिन्निन्धने न सन्ति तदपेक्ष15 त्वात् तदभावे तथा पूर्वोत्तरकालापेक्षम् 'मध्यम्' इत्यभिमतं वस्तु तदपेक्षत्वात् तदभावे नास्तीति
प्रसक्तमेव । यद्वा पूर्वोत्तरयोः कालयोर्नास्ति तस्य मध्येऽस्तित्वं कया युक्त्या सम्भाव्येत ? न सम्भाव्यमित्यभिप्रायः । असत्तु भवतीत्यादि, अत्र साधनम्-असत् तत्, पूर्वोत्तरकालयोरसत्त्वात्, खपुष्पवदिति ।
अथोच्यतेत्यादि । आदौ आरम्भे मध्ये क्रियाकाले अन्ते चोत्पन्नमात्रे क्रियापरिसमाप्तौ 20 कार्य द्रव्यादि ,व्यत्वादितत्त्वोपनिलयनात् प्रागसदेव । कस्मात् ? आदौ मध्ये च तदर्थं प्रवृत्तः,
न हि तर्थित्वं सति तस्मिन्नुपपद्यते । तत्त्वोपनिलयनादुत्तरकालमस्ति, कस्मात् ? तदर्थमप्रवृत्तेरुपरतक्रियत्वात्, न ह्यसति तस्मिस्तदर्थी न प्रवर्तते।।
अत्र ब्रूमः-एतदसत्यम्, तदसत्त्वानतिवृत्तः । असदेव स्यात् पुनरपि तदादि-मध्यो-ऽन्तेष्वप्यभूतत्वात् खपुष्पवदिति । एवं तावदनुत्पादादपि शून्याः सर्वभावाः।
१ योर्मध्यऽक्षण भा० ।। २ पृ० ८४५ पं० २० ॥ ३ निवृत भा० ॥ निवृत्त य० ॥ ४ त्रिषु योज्यो य० ॥ ५ असा प्र०॥ ६ कालेते चो य० । कालंते चो° भा० ॥ ७ द्रव्यादि भा० ॥ ८ त्वानिवृत्तेः य० ॥ ९ ध्यान्तेष्वव्यभू प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org