________________
सर्बभावानां शून्यत्वम् द्वादशारं नयचक्रम
८४८ । सामग्रीदर्शनादपि । इह यावती संज्ञा घट इति पट इति रूपमिति वा सा सामग्रीमात्रमेव । का सामग्री ? भावानां भावान्तरं प्रति व्यापारः, यथा तन्तूनां पटं प्रति व्यापारः। तत्र च व्यापूतानामेकैको नावयवी, प्रत्येकमसत्त्वे च समुदितावप्यसत्त्वम् ।.
. न तावद्धतुषु प्रत्यये च सामग्री अस्ति, नापि तत्स्वरूपपृथक्त्वेषु प्रत्यक्षतः तत्सान्निध्य एव तदर्थप्रवृत्तेः घटपटवत् । यच्च येषु नास्ति स्वरूपेण तस्य सामग्रयामपि कुतोऽ-5 स्तित्वम् ? न हि सिकताकणेष्वदृष्टं तोयं कुम्भेऽपि दृष्टम् ।।
इतश्च नास्ति वस्तु, सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते घट-पटादयो न प्रत्येक स्वरूपेण, 'यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वं सिकतातोयवत् ?' इत्युपेनयार्थो भविष्यति । तद्भावना--इह लोके यावतीत्यादि । 'घटः' इति संज्ञा कपालसामग्र्याम्, 'पटः' इति तन्तुसामग्र्याम्, 'रूपम्' इति तत्सन्ताने क्षणोत्पत्तिविनंष्ट्ररूपसन्ताने, वाशब्दादन्यद्वा यत् किञ्चिद् 10 रसादि मुष्टिपङ्क्त्यादि वा देश-कालभिन्नावयवसंहारमात्रं सामग्रीमात्रमेवेति । का सामग्री ? ५४४-२ उच्यते-भावानां भावान्तरं प्रति व्यापारः। तत्प्रदर्शनम्-यथा तन्तूनां पटं प्रति व्यापारः, अवयविनोऽवयवत्वेन व्याप्रियमाणा अवयवा एव तथा तथावस्थिता: 'सामग्री' इत्युच्यन्ते, अवयववैकल्ये तदभावात् । तत्र चेत्यादि, इत्थम्भूतायां च सामग्र्यां व्यापृतानां तन्त्वाद्यवयवा[ना]मेकैकोऽवयवो नावयवी सम्भवति तच्छक्त्यभावात्, प्रत्येकमसत्त्वे च समुदितावप्यसत्त्वमित्यवयविनः 15 सर्वथाप्यभाव एव स्यात् ।
तद् भावयति-न तावदित्यादि । हेतुप्रत्ययसामग्रीपृथग्भावेष्वसम्भवात् नास्ति, हेतुषु तन्तुषु पटो नास्ति, प्रत्यये निमित्तकारणेषु तुरी-वेम-शलाकादिषु च नास्ति, तस्मान्नास्ति सामग्री तदवयवीत्यर्थः । नापि तत्स्वरूपपृथक्त्वेषु प्रत्यक्षत इति प्रत्यक्षेणैव हि प्रमाणेन तन्तुस्वरूपे तुर्यादिस्वरूपे वा पृथगनुपलब्धा सामग्री पटाख्या, अनुमीयतेऽपि च 'नास्ति' इति, तत्सान्निध्य एवं तदर्थप्रवृत्तः, 20 सन्निहितेष्वेव हेतु-प्रत्ययेषु तन्तु-तुर्यादिषु पटार्थी 'पटो नास्ति' इति मत्वा तदर्थ प्रयतते, ततो नास्ति, किमिव ? घट-पटवत्, यथा घटे सन्निहितेऽपि पटार्थी 'पटो नास्ति' इति मत्वा तदर्थ ) प्रवर्तते पटे वा सन्निहिते घटार्थी घटार्थम् । यच्च येष नास्तीस्त्युपनयो गतार्थो यावत् कुम्भेऽपि दृष्टं 'न हि' इति वर्तते। - १ तातोयावत् प्र० ॥ २ पृ० ८४८ पं० २३ ॥ ३ विनंसृरूपय० । विनंस्वरूप भा० ।। ४ त्रमिवेति य० ॥ ५ अवयवैकल्ये य० ॥ ६ “हेतुप्रत्ययसामरयां पथगभावेऽपि मद्वचो न यदि। ननु शन्यत्वं सिद्ध भावानामस्वभावत्वात् ॥२१॥ यदि मद्वचो हे। तुषु] नास्ति महाभूतेषु सम्प्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्ति, उरःकण्ठोष्ठजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु प्र[यत्नेष्वपि नास्ति, नोभयसामग्रयामस्ति हेतुप्रत्ययसामग्रीविनिर्मुक्तं पृथग् वास्ति तस्मान्निःस्वभावा (वम्), निःस्वभावत्वाच्छन्यम् । एवं ननु शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतद् मद्वचनं निःस्वभावत्वाच्छ्न्यं तथा सर्वभावा निःस्वभावत्वाच्छून्या इति ।" -इति नागार्जुनविरचितायां स्वोपज्ञवृत्तिसमेतायां विग्रहव्यावर्तन्याम्। ७ तुरि भा० ॥ ८ षु नास्ति य०॥ ९ तत्स्वरूपपृथक्तसु प्र० । तुलना-पृ० ८४९५० २५ ॥ १० एतदर्थ य० ।। ११00 एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।। १२ १०८४८५०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org