________________
न्यायागमानुसारिणीवृस्यलङ्कृतम्
[ द्वादशे नियमनियमारे
ननु सिकताकणेषु प्रत्येकमदृष्टः कुम्भः सामग्रयां दृष्टः । न सामग्रीतुल्यत्वात् । अस्माभिर्यदि दृष्टः स्याद् नैवमुच्येत सामग्रया अप्यभाव इति । नन्वेतदेव साध्यते - अस्ति सामग्रीति ।
८४९
अवयवास्तहि सन्तीति चेत्, न आ रूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात् । 5 रूपादयस्तु रूपणादिनिरूपितविज्ञानसाराः, तेषां पृथक्त्वं हेतुत्वं च बुद्धौ वृत्तेः संघटते, बुद्धिव्यतिरेकेण स्वरूपाभावात् ।
हेत्वाद्यभावे सामग्रयभावाद् न सन्ति सर्वभावाः, इतरेतराश्रयदोषाच्च । तथाऽदर्शनात् ।
५४५-१
अत्राह - ननु सिकताकणेषु प्रत्येकमदृष्टः कुम्भः सामग्र्यां दृष्ट इत्यनैकान्तिकदोषोद्भावनं 10 परः कुर्यात्, कुम्भत्वस्य सिकताकणेषु प्रत्येकमदृष्टस्य दर्शनादिति । अंत्र ब्रूमः - न, सामग्रीतुल्यत्वात्, नानैकान्तिकः 'प्रत्येकमसत्त्वात् समुदायेऽप्यसत्' इति यस्मात् सामग्री साध्यतयैव तुल्यः कुम्भोऽपि विपक्षाभिमतः साध्यत्वात् पक्ष एव तस्यापि कुम्भपैरिणामस्य समुदायत्वात् तस्माद्विपक्षासिद्धेरनैकान्तिकचोदनाभासं जात्युत्तरमिदम् । तद्व्याख्या - अस्माभिर्यदि दृष्टः स्याद् नैवमुच्येत - सामग्र्या अप्यभाव इति, तदेव स्मारयति प्रस्तुतम्, नैन्वेतदेव साध्यते - 'अस्ति, नास्ति सामग्री' 15 इति तस्यैवोपन्यासात् तद्विपक्षाभिमत्याऽनैकान्तिकत्वचोदनं पाठमात्रमेतत् - प्रत्येकमदृष्टस्य सिकतासु कुम्भस्य दर्शनमिति । एवं तावत् सामग्री नास्तीति प्रतिपादितम् ।
अवयवास्तहि सन्तीति चेत्, स्यान्मतम् - पटस्य तन्तवोऽवयवाः सन्तीति । तन्न, कस्मात् ? आ रूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात्, तद्यथा 'तन्तवोंऽशुषु, अंशवस्तुटिषु, तुटयः पक्ष्म, पक्ष्माणि स्वावयवेषु न सन्ति इत्यादि यावत् परमाणुशो विभागः तावदवयव्येव । परमाणुरवि20 भागत्वाद् निरवयवः सन्निति चेत्, सोऽपि रूप-रस- गन्ध-स्पर्शभेदेनाऽवयव्येव । एवं तर्हि रूपादयोऽवयवा एव नावयविन इति चेत्, तेऽपि न स्वतो रूपादित्वं लभन्ते, यस्माद् रूपादयस्तु रूपणादिनिरूपित५४५ - २ विज्ञानसाराः, 'रूप्यत इति रूपम्, रस्यत इति रसः' इत्यादिविज्ञानेनैव निरूप्यन्ते रूपादयः, तत्स्वरूपं विज्ञानेन सह प्रकल्पते । तत्र रूपादीनां परस्परतः पृथक्त्वं हेतुत्वं च बुद्धौ वृत्तेः सङ्घटते, न तस्यामवृत्तेः स्वात्मनैव । [न] तस्माद् बहिरस्तित्वं जनयितुमर्हतस्ते हेतु पृथक्त्वे बुद्धिव्यतिरेकेण स्वरूपाभावात् ।
25
तदुपसंहृत्याह--हेत्वाद्यभावे सामग्र्यभावात् हेतु प्रत्यय-स्वरूप पृथक्त्वानामभावे रूपादीनां का सामग्री ? सामग्र्यभावे का द्रव्यता ? इति द्रव्याभाव:, द्रव्याभावे सर्वाभावप्रसिद्धिः । तस्मादयुक्तमुक्तंम् - अवयवी सामग्री विद्यते, अवयवा एव वा सन्तीति ।
१ अ ब्रूमः य० ।। २ °रिमाणस्य भा० ।। ३ नन्वेत साध्यते य० ।। ४ पक्ष्मादि य० ।। ५ सह य० प्रतौ नास्ति ॥ ६ प्रकल्पते भा० ।। ७ ग्यामा प्र० । ८ द्रव्याभावः य० प्रतौ नास्ति ।। ९ मुक्तवयवी य० ॥
Jain Education International
For Private & Personal Use Only
J
www.jainelibrary.org