________________
सर्वभावानां शून्यत्वम्]
द्वादशारं नयचक्रम्
८५०
सर्वथाप्ययुक्तयः प्रत्यक्षत उपलभ्यन्ते तथापि न सन्ति तस्य दर्शनस्यासम्भवात् । तदपि च दर्शनं नास्त्येव । यावदृश्यं तावत् परभागः। आराद्भाग एव दृश्यते, न परमध्यभागौ। तस्माददर्शनमेव वस्तुनः, न याराद्भागमात्रमेव वस्तु।
अथ मतम्-आराद्भागस्तावद् ग्रहीष्यते नियमात् प्रत्यक्षतः तथा मध्यपरभागावपि ग्रहीष्यते। न, तत्रापि त्रिभागत्वतुल्यत्वात्।
10
किञ्चान्यत्-इतरेतराश्रयदोषाच्च, अवयविसद्भावेऽवयवास्तदवयवत्वात् सिध्यन्ति हेतुत्वाच्च, तेषु चावयवेषु सत्सु तदवयवित्वात् कार्यत्वादवयवी सिध्यतीति तदिदमितरेतराश्रयम्, इतरेतराश्रयाणि च न प्रकल्पन्ते तद्यथा-नौ वि बद्धा नेतरत्राणायेति । एवं सामग्रीदर्शनादपि न सन्ति सर्वभावाः।
इतश्च न सन्ति तथाऽदर्शनात्, अदर्शनादपि तेनैव प्रकारेण न सन्ति ।
तत्र परमताशङ्का-सर्वथाप्ययुक्तय इत्यादि । न सन्ति युक्तयो येषामर्थानामयुक्त[य]स्ते यद्यपि युक्तितो नोपलभ्यन्ते प्रत्यक्षत उपलभ्यन्ते दृश्यन्ते, दृश्यमानाश्च निराकर्तुं न शक्यन्ते, अतो दर्शनावगृहीतसद्भावाः सन्तोऽर्थाः कल्पयितव्या इति यदि कल्प्येरंस्तथापि न सन्ति, तस्य दर्शनस्यासम्भवात् । तद्व्याख्या-तदपि च दर्शनं नास्त्येव । कथं दर्शनं नास्ति ? उच्यते-यतो ५४६-१ यावदित्यादि, यावदृश्यं तावत् परभागः, दृश्याभिमतस्य हि वस्तुन आराद्भाग एव दृश्यते, न पर- 15 मध्यभागौ दृश्येते, तैश्चावश्यमारान्मध्यपरभागैर्भवितव्यं वस्तुनः, तत्र यद्याराद्भागो दृश्यत इति प्रत्यक्ष[त्व]मिष्यते पर-मध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते ? तस्माददर्शनमेव वस्तुनः, न ह्याराभागमात्रमेव वस्त्विति ।
अथ मतमित्यादि । स्यादियं ते मति:-आराद्भागस्तावद् ग्रहीष्यते नियमात् प्रत्यक्षतः, तथा मध्य-परभागावप्यनुमानात् कालान्तरे प्रत्यक्षतो ग्रहीष्येते, तस्मान्नादर्शन[मे]वेति ।
20 अत्र ब्रूमः-न, तत्रापि त्रिभागत्वतुल्यत्वात्, आराद्भागेऽपि दृश्याभिमते त्यो भागाः सम्भवन्त्येव आरान्मध्य-पराख्याः सावयवत्वात्, विभज्यमानं हि सावयवं त्रिधा व्यवतिष्ठते ततस्तथानापि पर-मध्यभागादर्शनं त्रिभागतुल्यत्वात् समस्तव॑स्त्वदर्शनवदिति । एवं तावत् सावयवस्य त्रिभागत्वाद् दर्शनासम्भवः ।
१षाश्च प्र०॥ २ वावय प्र० ।। ३ श्रयत्वम् य० ॥ ४ प्रकल्प्पन्ते प्र० । तुलना-१० ३४ पं० ९।। ५ दृश्यन्ते भा० प्रतौ नास्ति ॥ ६ कल्पेरं य०॥ ७°दर्शनतेति य० । तुलना-पं० १४॥ ८ वस्तुद भा०॥ ९ गस्यादर्श य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org