SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [द्वादशे नियमनियभारे ८५१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् . अथ मतमभागं द्रक्ष्यते परमाणवस्तहि गृहयन्ताम् । तेष्वदृश्यमानेषु भागवद् दृश्यत इति का कथा, भागवति वा परमाणुसंघातेऽगृहयमाणे तदंशो निर्भागपरमाणुर्दश्यत इति ? यदा च परमाणुः [ न गृहयते तदा कुतो भागवान् ग्रहीष्यते भागवति वाऽगृहयमाणे तदंशा निर्भागपरमाणवो] ग्रहीष्यन्ते ? 5 अयं तु व्यवहारो विज्ञानोत्थापित एव। विज्ञानमसत्यपि बायार्थे तथा तथा विपरिवर्तमानमन्तरेव बाहयार्थवदाभासते विज्ञानत्वात् स्वप्नविज्ञानवत्। तत्रापि जाग्रद्गृहीतोऽर्थः कारणमिति चेत्, तत्र च तत्र च विज्ञानमेव कारणम् । यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्श्यताम् । स्वप्ने त्वनर्थकं विज्ञानमेवार्थः। अथ मतमभागं द्रक्ष्यत इति । यनिविभागमाराभागे तन्मात्रं गृह्यत इति चेन्मन्यसे ततश्च 10 तेऽनिष्टमिदम्-परमाणवस्तहि गृह्यन्ताम्, न हि परमाणवोऽतीन्द्रियाः सन्तः कस्यचित् 'दृश्याः' ५४६-२ इतीष्टाः, तेष्वदृश्यमानेषु निर्भागेषु भागवद् दृश्यत इति का कथा भागान्तरादृश्यत्वात् सिकता तैलवद्वा प्रत्येकं दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात् ? भागवति वा परमाणुसङ्घाते परमध्यभागाग्रहणादगृह्यमाणे तदंशो निर्भागपरमाणुर्द्रक्ष्यत इति 'का कथा' इत्य[नु]वर्तनान्नास्ति दर्शनम् । अस्यार्थद्वयस्य व्याख्या-यदा च परमाणुरित्यादि ग्रहीष्यन्त इति गतार्थम्, 'कुतः' 15 इत्यनुवर्तनात् । दृश्य-दर्शनव्यवहारस्तहि कथमसति दृश्ये सम्भवति ? इति चेत्, उच्यते-अयं तु व्यवहारो विज्ञानोत्थापित एव । विज्ञानं चासत्यपि बाह्येऽर्थे तेन तेनाकारेण विपरिवर्तमानमन्तरेव बाह्यार्थवदाभासते वस्तुत्वाद् विज्ञानत्वात् । किमिव ? स्वप्नवत्, स्वप्ने इव स्वप्नवत्, यथा सुप्तः संवृतेऽवकाशेऽप्यसम्भविनं हस्तियूथ-पर्वताद्याकारं पश्यति असत्येव हस्तियूथादिबाह्येऽर्थे तथा तथान्तविज्ञान20 परिणामात् एवं जाग्रत्स्वस्थरूपादिविज्ञानान्यपि अन्तर्वत्तिबहिरर्थाभासानि, न कश्चित् तद्व्यतिरिक्तोऽर्थ इति । यथोक्तम् द्यौः क्षमा वायुराकाशं सागराः सरितो दिशः। अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥ [वाक्यप० ३।७।४१] इति। तत्रापि जाग्रद्गृहीतोऽर्थः कारणमिति चेत्, स्वप्नेऽपि हि दृष्ट-श्रुता-अनुभूतपरिकल्पितसुख25 दुःखादि-रूप-रसाद्याकारमेव विज्ञानमुत्पद्यते नात्यन्तानुपलब्धखपुष्पाद्याकारम्, तस्माद् बाह्यार्थ एव ५४७-१ कारणमिति चेन्मन्यसे, अत्र वयं ब्रूमः-तत्र च तत्र च विज्ञानमेव कारणम्, स्वप्ने जागरणे च १ मतभागं य० ॥२ वर्तमानात् भा० ॥ ५ तथावध्यन्तविभा०। तथावप्यन्तविय०॥ विज्ञाभा० ॥ ८ जागरणकारणे च य० ॥ ३ संभवीति चेत् य० ॥ ४ च सत्य य० । व सत्य भा० ।। ६ दृश्यतां पृ० १०५५०२२, टिपृ० ५० पं०४॥ ७ तत्र च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy