________________
८५२
विज्ञानस्य शब्दार्थत्वम् ]
द्वादशारं नयचक्रम् ___ अत्र च विज्ञानं शब्दार्थः । तच्च कल्पनामात्रमेव । बुद्धयनुसंहृतिक्यिार्थः। ___ अयं च विकल्प एवम्भतैकदेशः। परि समन्तादवगमः, नैःस्वाभाव्यात परितोऽवगमोऽवगममात्रम् । सोऽस्यास्तीति मतिः पर्यवास्तिकोऽयं नयः। भावोऽपि भाव एव। उपयोग एव ।
विज्ञानेनैव उत्थापितोऽर्थः 'अर्थः' इति शक्यते प्रतिपत्तुम्, नान्यथा। 'विज्ञानेनाविनाभावितस्यार्थस्य 5 जागरणेऽपि स्वरूपाभावादनु[प]लम्भे कुतः पुनः स्वप्नकारणत्वम् ? तत आह-यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्श्यताम्, त्वया ज्ञानेन प्रकल्पितो न शक्यो दर्शयितुमर्थ इत्यभिप्रायः । मया पुनः शक्यतेऽर्थेन बाह्येन [विना] विज्ञानमेवार्थ इति, तद्यथा-स्वप्ने त्वनर्थकं विज्ञानमेवार्थ इति दर्श्यते । तस्मात् स्वपज्जाग्रदवस्थयोरप्यव्यभिचारि विज्ञानमेवार्थ इति न्याय्या कल्पना।
अत्र नये कः शब्दार्थः ? इत्यत्र ब्रूम:-अत्र च विज्ञानं शब्दार्थः, विज्ञानमेव हि शब्दो 10 वाचकाभिमतो विज्ञानोत्थापितः, तदुपलक्ष्योऽपि रूप-रस-घट-पटौदिर्बाह्यो वाच्यो विज्ञानमेव, यथोक्तम्-'विज्ञप्तिमात्रमेवेदं भो जिनपुत्र यदिदं त्रैधातुकम् [
] इत्यादि। यदन्तनिरूपं [तद्] बहिर्वदवभासते।
सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि च ॥ [आल० परी०।६।] इत्यादि । एवं तहि प्रमाण-प्रमाणाभासाविशेष इति चेत्, इष्यत एतत्, यस्मात् तच्च विज्ञानं कल्पना कल्पनामात्रमेव, अनियतदेश-काला-ऽऽकार-निमित्त-नैमित्तिकत्वाज्जाग्रदवस्थाभिमतविज्ञानस्यापि सुप्त-तैमिरिकादिविज्ञानवदप्रामाण्यात् । एष पदार्थः ।
वाक्यार्थस्तहि कः ? उच्यते-बुद्धयनुसंहतिर्वाक्यार्थः, विज्ञानस्यैव पौर्वापर्यार्थाभासवि-५४७-२ ज्ञानानुसंहारेण सम्बन्धनविज्ञानं वाक्यं वाक्यार्थश्चेति ।
अयं च विकल्प एवम्भूतैकदेशः। शतधा भिन्नस्य एवम्भूतस्यैकदेशोऽयं नयः। तस्य 20 चैवम्भूतस्य पर्यवास्तिकभेदत्वादक्षरार्थो गमयितव्यः 'पर्यवास्तिकः' इत्यत आह-परि समन्तादवगमः, परिरुपसर्गः समन्तादर्थः, अवतिर्धातुरवगमार्थः, यथाऽऽह-अव रक्षण-गति[-कान्ति]-प्रोति-तृप्त्य-वगमनप्रवेश-श्रवण-स्वाम्यर्थ-याचन-क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गन-हिंसा-देहन-भाव-वृद्धिषु [पा० धा० ६००] इत्यित्रावगमस्य विवक्षितत्वात् नःस्वाभाव्यात् परितोऽवगमः परीक्ष्यमाणस्य बाह्यार्थस्य विज्ञान
१ (विज्ञानेन विनाभावितस्या ?) ॥ २ (यदि चाविज्ञानो?) ॥ ३° टाविबा य० ॥ ४ नमेव च भा० ।। टिपु०५० पं०१२॥ "महायाने वैधातुकं विज्ञप्तिमात्र व्यवस्थाप्यते। 'चित्तमात्र भो जिनपुत्रा यदुत धातुकम्' इति सवात। चित्तं मनो विज्ञानं विज्ञप्तिश्चेति पर्यायाः। चित्तमत्र ससंप्रयोगमभिप्रेतम् । मात्रमित्यर्थप्रतिषेधार्थम् ।" इति विशतिकाविज्ञप्तिमात्रतासिद्धेः वसुबन्धुरचितायां स्ववृत्तौ॥ ६ 'विज्ञानं कल्पनामात्रमेव' इत्यपि पाठोऽत्र स्यातं ॥ ७ जानदवस्थभि य० । ज्जाग्रत्स्वस्थभि भा०। ज्जाग्रत्स्वस्थाभि इत्यपि पाठ: समीचीनो भाति, दृश्यतां पृ० ८५१ पं० २० ।। ८ पृ० ४४८ टि० २ ॥ ९ दृश्यतां पृ० ७६३ पं० १२-१४ । टिपृ० ९४ पं० १८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org