________________
न्यायानमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वादशे नियम नियमारे
द्रव्यशब्दश्चैव षट्स्वपि दुर्गतिः तस्या विकारो द्रव्यमिति तथा तथा प्राग् व्याख्यातो यथादर्शनं तथागतेः ।
उपनिबन्धनमस्य से कि तं भावक्खंधे ? भाववबंधे दुविहे पण्णत्ते, तंजहा- आगमतो अ
८५३
व्यतिरिक्तस्य सर्वयुक्तिदिक्तः स्वभावाभावादवगममात्रम् विज्ञानमात्त्रमेवेत्यर्थः । सोऽस्यास्तीति 5 मतिरस्येति स पर्यवो यस्यास्तीति मतिः स नयः, पैर्यवोऽतीतः षट्प्रकारोऽपि "अस्ति नास्ति दिष्टं " [ ० ४ |४| ६० ] इति ठक्प्रत्ययान्तरूपसिद्धेः ' पर्यव एवास्ति' इति मन्यमानः पर्यवास्तिकोऽयं
नयः ।
स च भावोऽर्थः शब्दो[[]न्यवाच्याभिमतं विज्ञानलक्षणमेव वस्त्वित्यत आह- भावोऽपि भाव एव, 'भवतीति भावो घटपटादि द्रव्यगुण-कर्मादि वा इति मा ग्रहीदिति भाव एव उपयोगो भावो न 10 द्रव्यादीति । स च भावः क्षायिकः क्षायोपशमिक औपशमिकः पारिणामिको वा स चोपयोग एव ५४८-१ साकारोऽनाकारो वा प्रमाण- प्रमाणाभासादिविकल्पशून्यः । तस्मात् पर्यवास्तिकनयभेद एवम्भूतैक" देशोऽत्यन्तविशुद्धविज्ञानपर्ययमात्त्रग्राही नयोऽयमिति ।
यथा विध्यादिविकल्पेषु आद्येषु षट्सु द्रव्यास्तिकेषु पर्यवशब्दो द्रव्यप्राधान्यात् तदर्थत्वेन व्याख्यातस्तथेहाप्यारातीयेषु उभयोभयादिविकल्पेषु द्रव्यशब्दः पर्यवप्राधान्यात् तदर्थत्वेन गमयितव्य 15 इत्यत आह-द्रव्यशब्दश्चैष षट्स्वपीत्यादि । दुर्गतिरिति दुदु गतौ [पा० धा० ९४४-९४५ ], द्रुशब्दो गत्यर्थः, तस्या गर्तोविकारे यत्प्रत्यये कृते 'द्रव्यम्' इति रूपं भवति । द्रव्यमेवार्थो द्रव्यार्थः । स पुनस्तथा तथा तेन तेन प्रकारेणातीतोभयोभयादिविकल्पेषु प्राग्व्याख्यातः यद् यद् दर्शनं यथादर्शनं तेषां षण्णां स्वेन स्वेन दर्शनेन पर्यायार्थ एव स स षड्विकल्पोऽपि तथागतेः तथा तथा परितों 20 गमनींत् ।
किमेतत् स्वाभिप्रायविवरणमात्रम् ? आहोस्विदस्य दर्शनस्य उपनिबन्धनमार्षमप्यस्ति ? इत्यत्रोच्यते--अस्त्युपनिबन्धनमस्य, से " किं तं भावक्खंधे ? इति प्रश्नोपक्रमो ग्रन्थो यावत् से
१ रिक्तः य० ।। २ 'अस्य' इति पदेन 'सोऽस्यास्ति' इत्यत्र विद्यमानः 'अस्य' इत्यंशः परामृश्यत इति भाति ॥ ३ ( पर्यवास्तिकोऽतीत: II ४ पृ० ४४६ टि० ५ ॥ ५ वाद्याभि भा० । 'शब्दान्यवाच्याभिमतम्' इति 'शब्दान्यबाह्याभिमतम्' इति वा पाठोऽप्यत्र भवेत् ॥ ६ णमेवस्त्वि ं भा० ॥ ७ प्यागतों प्र० ।। ८ टिपू० ११५ पं० ११ ।। ९ टिपृ० १६ पं० ३०, टिपृ० ५२ पं० ३२ ।। १० नाक्षिमेतत् भा० । नाक्षमेतत् य० ।। ११ " अथ भावस्कन्धनिरूपणार्थमाह-से किं तं भावखंधे ? भावबंधे दुबिहे पण्णत्ते तंजहा - आगमओ अ नोआगमओ अ । अत्रोत्तरं 'भावबंधे दुविहे' इत्यादि । भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः । स च द्विविधः प्रज्ञप्तः तद्यथा-आगमतश्च नोआगमतश्च । से कि तं आगमओ भावबंधे ? आगमओ भावबंधे जाणए उवउत्ते । से तं आगमओ भावबंधे । तत्रागमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद् भावस्कन्धः ।” इति मलधारिहेमचन्द्र - सूरिविरचितायाम् अनुयोगद्वारसूनवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org