Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 150
________________ ८३९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे अर्थतन्नेष्यते, अर्थान्तरत्वमेवेष्यते, ततो घटबहुत्वं तहि प्राप्तम्-अस्त्यपि घटो भेदेन, एकोऽपि घटः, घटोऽपि घट इति त्रयो घटाः स्युः। अथ घट एवैको घट इष्यते ततः सिद्धस्तहि नास्ति घट इति, अस्तित्वार्थान्तरत्वात् खपुष्पवत्, नैक इति च। एकत्वास्तित्वत्यागाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, भूतित्यागान्न भूतिमात्रम्। इ ततश्चानस्तित्वो घटः। ___ अथोच्येत परिहारः-बढेवास्ति बढेव नास्ति, क्वचिदस्तित्वमेव नास्तित्वमेव वा, तस्माद् घटान्तरपटान्तराद्यस्तित्वविशेषणार्थम् 'अस्ति घटः' इत्युच्यते। तथैकमपि बह्वव, कत्वयोरिति ? अत्र साधनम्-नन्वेवमित्यादि सर्वेषामस्तित्वैकत्वघटानामपि एकरूपेण भवितव्यमिति पक्षः । अनन्यत्वादिति हेतुः । प्रतिवस्तुतत्त्ववदिति दृष्टान्तः, यथा वस्तु वस्तु प्रति यदात्म10 स्वरूपं घटादौ तत् तदनन्यत्वादेकरूपमेव दृष्टम्, रूपरूपत्वमसाधारणं न तद्रसाद्यात्मकमपीत्यविशिष्टं तथास्त्येकघटानामपीति नास्ति सर्वगतत्वासर्वगतत्वविशेष इति तदवस्था निःस्वभावता। ५३९-१ अर्थतन्नेष्यते निःस्वभावत्वमनन्यत्वं च अर्थान्तरत्वमेवास्त्येकघटानामिष्यते चेत् ततो घटबहत्वं तहि प्राप्तमिति ब्रूमः, यस्मादस्त्यपि घटो भेदेन एकोऽपि घटो 'भेदेन' इति वर्तते, तथा घटोऽपि घट इति त्रयो घटाः स्युः, अनिष्टं चैतत् । अथ मा भूदेष दोष इति घट एवैको 15 घट इष्यते, न त्वस्तित्वैकत्वे घट इति, ततः सिद्धस्तहि नास्ति घट इति । कस्मात् ? अस्तित्वार्थान्तरत्वात् खपुष्पवत् । नैक इति च 'सिद्धं तर्हि' इति वर्तते । किञ्चान्यत्, एकत्वास्तित्वत्यामाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, एकत्वत्यागात्, एकैकत्वाच्च रूपादीनां रूपादिष्वभावे घटस्य 'रूपादयो (दीनां) समुदायो घट[:] संवृतिसन्' इत्येतन्निवर्तते । तथा क्षणिक इत्येकक्षणावलम्बिनोऽस्तित्वं क्षणिकवादेऽभ्युपगतं 'भूतिर्येषां क्रिया सैव' [ ] इति, 20 भूतेरस्तित्वस्य त्यागान भूतिमात्रमिति च प्राप्तम् । अनिष्टं चैतदुभयमपीति। ततः किम् ? ततश्चानस्तित्वो घट इति प्राप्तम्, नास्त्यस्तित्वं यस्य सोऽनस्तित्वः, यो घट इत्युच्यते सोऽनस्तित्वः, तच्च विज्ञानमात्रमिदं सर्वं बाह्यार्थशून्यमिति वक्ष्यमाणः पक्षोऽभ्युपगतो भंवतीति । । अथोच्यतेत्यादि । अत्र यदि परिहारः परेणोच्येत तद्यथा-बह्ववास्ति घंटपटादि प्रत्येक५३९-२ बृत्तेरस्तित्वस्य, तथा बह्वेव नास्ति घट-पटाद्येव परस्परव्यावृत्तस्वरूपा (पत्वा)त् । तच्च क्वचिदे25 कैकस्मिन्नर्थे न सर्वत्रास्तित्वमेव नास्तित्वमेव वा । तस्माद् घटस्य पटाद् विशेषणार्थम् 'अस्ति घट:' इति घटस्यैवास्तित्वमुच्यते, तथैकमपि बह्वेव घट-पटादि, तदेव द्वित्रिचतुरादिसङ्ख्यमपि, तस्मात् 'एकम्' इति द्वयाविशेष्योच्यते । तत्रैवंविधे वस्तुनि 'अस्त्येको घट:' इति अस्त्येक-घटानां त्रयाणाम १ पूर्वापरपर्यालोचनया 'सिद्धस्तहि' इति पाठः पूर्वानुसारेणात्र भवेत्, पूर्वत्र वा 'सिद्धं तहि नास्ति' इति पाठो भवेदेतदनसारेणेति ध्येयम् ॥ २ च्च रूपादिष्वभावे घटरूपादयो भा०।। ३ संवत्ति प्र० ॥ ४ पृ० ८०१ पं०७॥ ५ यस्य नोनस्तित्वोप्र०॥६(ततश्च?) ।। ७ भवति भा०।। ८घटपटादेः य० । घटपटाद भा०॥ ९षोच्यते य०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252