Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 149
________________ सर्वस्य नि:स्वभावत्वसाधनम् ] अथ घटपटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वाभेदे, भेदार्थं प्रधानादिप्रवृत्तेः । तत एवमभ्युपगमे यथा घटः पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तस्तथा घटो घटात्मस्वरूपादपि विपरीतः प्राप्तः, अस्तित्वैकत्वविपरीतत्वात्, घटविपरीतपटात्मवत् । इति पुनरपि नास्ति घटः । एवं सर्वभावा अपि, पटानन्यत्वैकत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । ततश्च निःस्वभावभावापत्तिरेव । परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न अथोच्येत - पटादीनां त्वस्तित्वैकत्वयोः सर्वगतत्वाद् व्याप्तेः । एतदेवे कुत इदं यत् ते सर्वगते, न घटः । नन्वेवं सर्वेषामेकरूपेण भवितव्यम्, अनन्यत्वात्, प्रतिवस्तुतत्त्ववत् । द्वादशारं नयचक्रम् अताह- अथेत्यादि । घट- पटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वा- 10 भेदे | किमर्थं किं कारणं वा ? उच्यते- 'भेदार्थं प्रधानादिप्रवृत्तेः प्रधानं हि प्रकृति- बहुधानादिपर्यायं पुरुषोपभोगं शब्दाद्युपलब्धिरूपमाद्यं गुण- पुरुषान्तरोपलब्धिरूपं चान्त्यमुद्दिश्य पुरुषार्थं प्रवर्तमानं शब्दादि पृथिव्यादि - गवादि - घटादिभेदानन्तरेण न शक्नोति पुरुषार्थं कर्तुम्, अतो भेदार्थं प्रधानादिप्रवृत्तेर्घट-पटादयः परस्परविभिन्नस्वभावा एव । तस्मान्न सर्वात्मा (त्म ) दोष : 'अस्त्येकघटानाम्' इत्यत । ततो घटः पटादस्त्यात्मकाद् विपरीतोऽधुनाभ्युपगतः, एवमभ्युपगते पुनरेष दोष आपद्यते यथा घटः 15 पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तः, एवं हि वैपरीत्यं स्याद् नान्यथा, ततश्च तथा घटो घटात्मस्वरूपादपि विपरीतो घटास्तित्वैकत्वव ( त ) दनन्यत्वलक्षणात् प्राप्नोति, ५३८-२ अस्तित्वैकत्वाभ्यां विपरीतत्वात्, घटविपरीतपटात्मवदिति घटात्मनैवाभावात् पुनरपि नास्ति घटः । गतार्थः । ८३८ एवं सर्वभावा अपीत्यतिदेशादेकैको भावः कट- रथादिरभावः स्यात् । कस्मात् ? पटानन्यत्वे - कत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । तदुपसंहारः- ततश्च निःस्वभावभावापत्तिरेवेति 20 अथोच्येतेत्यादि । स्यान्मतम् - पटादीनां परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न त्वस्तित्वैकत्वयोविपरीतता, कस्मात् ? सर्वगतत्वाद् व्याप्तेरिति, अस्तित्वैकत्वाभ्यां हि व्याप्ता घटादयो यस्मात् कुतस्तयोर्वैपरीत्यं यतों व्यावृत्तेः कल्प्येत ? घटादयस्तु परस्परविपरीताः स्युर्व्यावृत्तात्मत्वात् । अतो न निःस्वभावापत्तिरस्तित्वैकत्वव्याप्तेरिति । अन ब्रूमः - एतदेकत्वे कुत इदं यत्ते इत्यादि । ताभ्यामस्तित्वैकत्वाभ्यां घटैकत्वेऽभ्युपगम्यमाने कुतोऽयं विशेष आयातः - तयोरेव अस्तित्वैकत्वयोः सर्वगतत्वं न घटस्य, घटस्यैवासर्वगतता नास्तित्व Jain Education International १ मेदार्थः प्र० ।। २ पुरुषार्थ प्र० भा० । पुरुषा प्र० य० । ३ ' सार्वात्म्यदोष:' इति 'सर्वात्मतादोष:' इति वा पाठोऽपि भवेदन ॥ ४ पुनरदोष य० ।। ५ * * एतच्चिह्नाङ्कितः विपरीत' इत्यत आरभ्य पटादीनां इत्यन्तः पाठो य० प्रतौ नास्ति ।। ६ प्तेरित्यत्र स्ति भा० ॥ ७ घटादय यस्मा कुत भा० ॥। ८ कल्पेते य० ।। ९ एता प्र० ।। For Private & Personal Use Only 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252