Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 152
________________ ८४१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशे नियमनियमारे . एतदपि न, उक्तसत्त्वतुल्यत्वात् । येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभः, अस्तित्वेन भवनाविशेषात्, अभिन्नास्तित्वों घटः, नसहितः स एव हेतुः, एकघटवत् । तथैकत्वमपि।। यदि तु ताभ्यामपि घटोऽन्यस्ततो घटस्य शून्यत्वम्, अस्तित्वैकत्वशून्यत्वात्, खपुष्पवत् । अनन्यत्वे तु सर्वभावा अपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्याम् अनर्थान्तरत्वाद् घटवत् । अथैवं घटादिसर्वभावघटत्वं नेष्यतेजनार्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा भूत्, भवनविशेषहेत्वभावात्, पटवत्।। प्रकारेणात्मानं लभते पटबुद्धिश्च कटबुद्धेः, ते च कटपटधियौ परस्परतो भिन्नास्तित्वे दृष्टे, तथा 10 घटोऽपि भिन्नप्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्व इति । एतदपि न, उक्तसत्त्वतुल्यत्वात्, इदमपि अनन्तरोक्तपटादिव्यतिरिक्ताभिमतघटास्तित्वेन तुल्यं घटाभिन्नास्तित्वम, तस्मादुक्तसत्त्वतुल्यत्वादसत्त्वमेवेत्यर्थः । भिन्न प्रकारत्वादित्यस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽपि अस्तित्वव्याप्तिसाधनत्वे तुल्यत्वं वेति द्विधापि उक्तसत्त्वतुल्यत्वाद् न त्वदभिमतभिन्नास्तित्वो घट इति सम्बन्धः । तस्य व्याख्यानं समानार्थद्वयस्येत्यत आह-येन 15 प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभोऽस्तित्वेन भवनाविशेषात् । ५४०२ नानारूप्ये ऽस्तित्वं] नास्ति[त्व]मस्तित्वनास्तित्वं वा स्यादित्युक्तम् । तस्मादात्मलाभस्याभिन्नरूपत्वाद भिन्नास्तित्वो घटः। विरुद्धाव्यभिचारी वाऽयम् अभिन्नास्तित्वो नसहितः स एव हेतुरिति 'अभिन्नप्रकारात्मलाभत्वात्' इति प्रयोक्तव्य इत्यभिप्रायः । एकघटवदिति दृष्टान्तः, यथैव हि घट आत्मलाभक्षणेऽत्यन्तमभिन्नास्तित्वस्तथा घटान्तराणि पटादयश्चेति। तथैकत्वमपीति नेयम् । 20 एवमेकत्वास्तित्वाभ्यामभिन्नो घटः । यदि त्वित्यादि। यदि तु ताभ्यामपि घटोऽस्तित्वैकत्वाभ्यामन्यस्ततो घटस्य शून्यत्वमस्तित्वैकत्वशून्यत्वात् सामान्य-विशेषवत्त्वासत्त्वादसत्त्वमेव खपुष्पवदिति प्रागुक्त इत्यर्थान्तरपक्षदोषोपसंहारः। अनन्यत्वे त्वित्यादिनोऽनर्थान्तरपक्षदोषोपसंहारो गतार्थो यावद् घटवदिति । तस्मात् स्थितमेतदाद्युक्तम्-घटवत् पटाद्यपि घट इति । 25 अथैवमित्यादि। अथैवं न्यायापादितमपि घटादिसर्वभावघटत्वं नेष्यते प्रसिद्धयादिबलेन केनचिद[न]र्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा "भूत, भवनविशेषहेत्वभावात्, १ पृ० ८४० पं० ६॥ २ चेति य० ॥ ३ पृ० ८४० पं०६॥ ४ पृ० ८६६ पं० ५ ॥ ५ पृ० ८४० पं० १४ ॥ ६ विरुद्धाव्यभिचारिणः स्वरूपमत्र टिपृ० ८४ पं० १४ इत्यादौ विलोकनीयम् ।। ७ नसहित एव य०प० ५५७-१-।। ८ एवघट प्र० ।। ९ 'यथै [क ए]व हि' इत्यपि भवेत् पाठः, दृश्यतां पृ० ८६६ पं० २३ ॥ १० पृ० ८३७ पं० २६, पृ०.८४० पं० १८ ।। ११°रदोषों य० ॥ १२ नानार्थान्तरं प्र०। पृ० ८६७ पं० ११॥ १३ १० ८३६ पं०९। आदावुक्तमित्यर्थः ॥ १४ भूदित् प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252